SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० २३-२४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते 'वि[s]भ्रा[s]ज [1]ते[s]' इत्येवंरूपेण प्रतिपादं लक्षणसमन्वयोऽवसेयः ॥ अ० २, सू०-२२ ॥ सुप्रतिष्ठायां रो गौ प्रीतिः ॥२३॥ यथा- यस्य नवार्थाः, नैव कामिन्यः । नापि वैराग्यं, तस्य का प्रीतिः ॥ २३.१ ॥ [ इत्थं प्रतिष्ठायामष्टौ भेदा उक्ताः, प्रस्तारक्रमेण च १६ षोडश भेदाः स्युरिति वृत्तरत्नाकरे निर्दिष्टम् ] ___ एवं चतुरक्षरां छन्दो जाति निरूप्य पञ्चाक्षरां सुप्रतिष्ठानाम्नी छन्दोजाति सप्रभेदां निरूपयति- "सुप्रतिष्ठायां रो गौ प्रीतिः" इति- 'र:-रगणः , गुरू ss' इत्येवंस्वरूपर्वणः कृताः पादा यस्य तत् छन्दः सुप्रतिष्ठायां- सुप्रतिष्ठासंज्ञकछन्दोजातिमध्ये 'प्रीतिः' इति नाम्ना व्यवह्रियत इत्यर्थः । उदाहरतियथा- यस्य नैवार्थाः इति- यस्य- जनस्य, अर्थाः- धन-धान्यादिसम्पदः, न एव- निश्चितरूपेण न सन्ति, कामिन्य:- कामभोगोपयुक्ताः स्त्रियः, न एव सन्ति, अपि- अन्यच्च, वैराग्यं- मोक्षोपयोगि विषयवैतृष्ण्यं न- अस्ति, तथा च विषयसतृष्णस्य सर्वविषयशून्यस्य तस्य का प्रीतिः- क आनन्दः, किमपि न सुखमित्यर्थः । सर्वथा विषयविरक्तस्यात्यन्तिकी प्रीतिः, तदभावे अर्थकामोपभोगसम्भवे क्षणिकाऽपि प्रीतिः, उभयशून्यस्य च तस्य का प्रीतिसंभावनेति तात्पयंम् । 'य[s]स्य[] नै [s]वा[s]र्थाः[s]' इति लक्षणसंगतिः।।अ० २, सू०-२३ ।। रल्गा विदग्धकः ॥२४॥ रगणो लघुगुरू च । यथा- यौवनेन वा, कार्मणेन वा। यो न दग्धको, सौ विदग्धकः ।। २४. १ ॥ वागुरेति भरतः ॥ २४. १ ॥ सुप्रतिष्ठायामेव द्वितीयं प्रकारमाह- "गा विदग्धकः" इति- 'र्रगणः sis, ल्- लघुः, [1], ग्- गुरुः [s]' इत्येवं पञ्चभिर्वविहिताः पादा यस्य तद् वृत्तं विदग्धको नाम । उदाहरति- यथा- यौवनेन वेति- यःपुमान्, यौवनेन- युवत्वकृतेन कामगर्वादिविकारेण, कार्मणेन- स्वक्रियाकृतदुर्विपाकेन वा, न दग्धक: इति- न प्लुष्टान्तःकरणः, स एव विदग्धक:- चतुर
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy