SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० २०-२२.] गौ व्रीडा ॥२०॥ यगणो गुरुन्न । यथा- तथा तेन, कृतं भ; । यथा चित्ते, ऽभवद् वीडा ॥२०.१॥ प्रतिष्ठायाः षष्ठं प्रकारमाह-रगो वीडेति- यगणेन ।ऽऽ, गुरुणा 5 च निर्मितः पादो यस्य तच्छन्दो व्रीडा नाम । उदाहरति-यथा- तथा तेन इति- भर्ना- स्वामिना, न तु प्रियेण, तथा- तेन प्रकारेण, कृतमाचरितं, नपा- येन प्रकारेण, चित्ते, वीडा- लजा, अभवत्- जातेत्यर्थः । अत्र 'य[0]था[5]चि[5]ते[s]' इत्येवं रीत्या प्रतिपादं लक्षणानुगतिः ॥२, सू० २०॥ सगौ सुमतिः ॥२१॥ सगणो गुरुश्च । यथा- भज धर्म, वद सत्यम् । त्यज पापं, सुमतिः सन् ॥ २१. १. ॥ भ्रमरीति भरतः ॥ २१.१ ॥ सप्तमं प्रकारमाह- "स्गो सुमतिः" इति- सगणेन ॥s, गुरुणा ऽ च, विरचिताः पादा यस्य तत् सुमतिनामकं छन्द इत्यर्थः। उदाहरति- यथाभज धर्मम् इति-सुमतिः- निर्दुष्टबुद्धिः, सन्- भूत्वा, धर्म शास्त्रगुरुपदिष्टं सद कार्य, भज- अनुतिष्ठ, सत्यं- यथार्थ, वद- ब्रूहि, पापम्- असदाचरणं, त्यज-वर्जयेत्यर्थः। 'भ[1]ज[1]स[5]त्यं [s]' इति रीत्या पादे लक्षणाऽनुगतिः, समवृत्ततया च चतुष्वपि पादेषु तथैव वर्णविन्यासः ॥ अ० २, सू०-२१ ॥ ___ त्गौ सोमप्रिया ॥२२॥ तगणो गुरुश्च । यथा- विभ्राजते, खे रोहिणी। चारुधुतिः, सोमप्रिया ॥ २२.१॥४॥८॥ प्रतिष्ठाया अष्टमं प्रभेदमाह- "त्गौ सोमप्रिया" इति- तगणः ऽऽI, गुरुरेकः 5, इति वर्णचतुष्टयेन निर्मिताः पादा यस्य तत् छन्दः ‘सोमप्रिया' नाम्ना व्यवह्रियत इत्यर्थः । उदाहरति- यथा-विभ्राजते इति- खे- आकाशे, चारुद्युतिः- सुन्दरच्छविः, सोमप्रिया- निशाकरप्रीतिपात्रम्, रोहिणी- स्वनामप्रसिद्धा तारा, विभ्राजते- सर्वाभ्यस्तारकाभ्योऽतिरिच्य शोभत इत्यर्थः ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy