________________
[अ० २, सू० १८ - १६. ] सवृत्तिच्छन्दोऽनुशासन प्रद्योते
५६
सर्वविधविलसनरतिनिपुणा स्त्री, धनं विना- वित्तरहितेन जनेन, न लभ्यतेन प्राप्यत इत्यर्थः । अत्र प्रतिपादं प्रोक्तलक्षणस्य स्थितिः स्पष्टैव । भरताभिमतं नामान्तरमाह - जयेति भरतः इति - भरत इदं छन्दो जयानाम्ना व्यवहरतीत्यर्थः ॥ अ० २, सू०-१७ ॥
गौ समृद्धिः ॥ १८ ॥
रगणो गुरुश्च । यथा- पुण्यपात्रे, शुद्धचित्तं । या प्रदत्ता, सा समृद्धिः ।। १८.१ ॥ पुण्यमिति भरतः ।। १८.१ ॥
प्रतिष्ठायांश्चतुर्थं प्रभेदमाह- "गौ समृद्धिः" इति - रगणेन SIS, गुरुणा चैकेन S, विरचितः पादो यस्य तच्छन्दोऽत्र समृद्धिनाम्ना व्यवह्रियत इत्यर्थः । उदाहरति- यथा- पुण्यपात्रे इति - शुद्धचित्त :- फलाभिसन्धिराहित्येन निर्मलान्तःकरण, पुण्यपात्रे - पुण्ये - सत्यवचनस्वधर्माचरणादिभिः पवित्रे, पात्रे - दानोद्देश्ये जने, या प्रदत्ता- वितीर्णा, सा समृद्धिरिति कथ्यते, सैव समुचिता सम्पदित्यर्थः । अस्यैव भरतसम्मतं नामान्तरमाह - पुण्यमिति भरतः इति 'पु [S] ण्य [ 1 ] पा[s]त्रे [s]' इत्येवंरूपेण लक्षणसमन्वयः प्रतिपादमुनयः ॥ अ० २, सू० - १८ ।।
गौ मृगवधूः ||१६||
नगणो गुरुच । यथा- तव पुरो, नयनयोः । किमिव सा, मृगवधूः ॥ १६.१ ॥
पञ्चमं प्रतिष्ठायाः प्रकारमाह - “न्गौ मृगवधूः " इति - नगणेन III, गुरुणा च विरचितः पादो यस्य तच्छन्दो मृगवधूर्नाम । उदाहरति- यथातव पुर इति- किसा- प्रकृतनिर्वचना स्त्री, तव नयनयो:, पुर:- अग्रे, मृगवधूरिव - हरिणीव चञ्चलनेत्रा भीतेव वा भवति ? | 'त [1] व [ | ] [ 1 ]रो [s]' इत्येवं रूपेण लक्षणानुगतिः स्पष्टा । सर्वत्र चैतेषु छन्दःसु छन्दसो नामाऽपि प्रकृतार्थान्वय्यर्थतया समावेशितमिति न विस्मर्तव्यम्, तदनुरोधेनैव च नाथंचारुत्वे व्यवसाय इत्यपि बोध्यम् ॥ अ० २, सू० - १६. ॥