________________
५९
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १५-१७.]
प्रतिष्ठायां म्गौ कन्या ॥१५॥ मगणो गुरुश्च । यथा- सर्वैर्देवैः, येहां चक्रे। सेयं मन्ये, धन्या कन्या ॥१५.१॥
अथ चतुरक्षरपादां प्रतिष्ठाजाति वर्णयितुं प्रथमभेदमाह-प्रतिष्ठायां म्गो कन्येति- प्रतिष्ठाजात्यन्तर्गतं मगणेन- गुरुत्रयेण, गुरुणा चकेन, चतुर्भिगुरुभिरिति यावत्, विरचितपादं कन्यानामकं छन्द इत्यर्थः । उदाहरतियथा-सर्वदेवरिति-या सर्वे:-देवैः-सकलः सुरैः, ईहांचक्र-प्राप्तमभिलषिता, सा इयं कन्या-बाला, 'धन्या' इति [अहं ] मन्ये-उत्प्रेक्षयामीत्यर्थः । अत्र चतुभिगुरुभिर्वर्णः पादाः कृताः ।। अ० २, सू०-१५ ॥
भगौ सुमुखी ॥१६॥ भगणो गुरुश्च । यथा- क्षीणतनु-, मंद्विरहे । याऽश्रुमुखी, सा सुमुखी ॥१६. १ ॥ ललितेति भरतः ॥ १६.१ ॥
प्रतिष्ठाजातेद्वितीयं भेद माह- "गौ सुमुखी" इति- भगणेन गुरुणकेन लघुद्वयेन-), गुरुणा चकेनेति चतुभिर्वर्णविहिताः पादा यस्य तत् सुमुखीनामकं वृत्तमित्यर्थः। उदाहरति-यथा-क्षीणतनुरिति-या सा- प्रसिद्धरूपा, सुमुखीसुन्दरानना, मद्विरहे- मया सह विच्छेदे, क्षीणतनु:- कृशशरीरा, अश्र मुखीनेत्रजलक्लिन्नानना, च भवतीत्यर्थः। अत्र प्रतिपादं भगणस्य 51, गुरोःऽच सन्निवेशः स्पष्टः । अस्यैव भरताभिमतं नामान्तरमाह- ललितेति भरत इति- अदोऽपि छन्दो भ० ना० शास्त्रे न लक्षितं दृश्यते ॥ अ० २, सू०-१६ ॥
ज्गौ विलासिनी ॥१७॥ जगणो गुरुश्च । यथा- न लभ्यते, घनस्तनी। धनं विना, विलासिनी ॥१७.१ ॥ जयेति भरतः ॥ १७.१ ॥
प्रकारान्तरेण प्रतिष्ठामाह- "ज्गौ विलासिनी" इति- 11 आद्यन्तलघुगुरुमध्यजगणेन, गुरुणा चैकेन निर्मितपादं छन्दो विलासिनी नाम । उदाहरति- यथा-न लभ्यत इति- घनस्तनी- कठोरनिबिडकुचा, विलासिनी