________________
[अ० २, सू० १३-१४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
५७ रो मृगी ॥१३॥ यथा-वल्लभा, गेहिनी । या मृगी-, लोचना ॥१३.१॥ तडिदिति भरतः॥१३.१॥
मध्याया जातेस्तृतीयं प्रभेदमाह- "रो मृगी" इति- लघुमध्यवर्णत्रयात्मकरगणरूपपादयुक्तं मृगीनामकं छन्द इत्यर्थः । उदाहरति- वल्लभा गेहिनीति- या गेहिनी- गृहिणी, मृगीलोचना- मृग्या लोचने इव लोचने यस्यास्ताहशी [सा] वल्लभा- पत्युः प्रिया भवतीत्यर्थः । अत्र चतुर्णामपि पादानां मध्यलघुत्वं स्पष्टम् । अत्रापि मतान्तरमाह- तडिदिति भरतः इतिभरत आचार्य इदं छन्दः 'तडित्' इत्याहेत्यर्थः । अ० २, सू०-१३ ॥
सो मदनः ॥ १४ ॥ यथा- विरहे-,ऽभ्यधिकम् । मदनो वहति ॥ १४.१॥रजनीति भरतः । केचित्तु-'म्न-भ्य-ज्र-स्ताम्' एककोऽपि- अब्धिः, शङ्खः, शुभ्रं, दुग्धम, इत्याहुः ॥ १४.१ ॥ ३॥४॥
मध्याया जातेश्चतुर्थं विशेषमाह- सो मदन इति- सगणेन- लघुद्वयैरगुरुभिनिर्मिताः पादा यस्य तन् मदनो नाम च्छन्दः । उदाहरति- यथा- । विरह इति- मदनः- कामः, विरहे- प्रियायाः प्रियस्य वा विच्छेदे, अभ्यधिकं- संयोगावस्थातोऽतिशयितं, दहति चेतस्तापयतीत्यर्थः । अस्यैवच्छन्दसो नामान्तरमपि मतान्तरेणाह- रजनीति भरत इति- भरतनाट्यशास्त्रे गायत्रीच्छन्दसः पूर्वं छन्दसां नामानि सम्प्रति नोपलभ्यन्ते, तथापि तस्याकररूपत्वेन सम्भाव्यतेऽन्येषामपि तत्रोल्लेख:, कालविच्छेदाच्च स पाठोभ्रष्ट इति मध्याया जातेस्त्र्यक्षरत्वेन सर्वेरेव गणस्तस्या निर्माणं संभवतीति गणसंख्यासमा अस्य च्छन्दसो भेदा इति केषांचिन्मतं सूचयति- केचित् तु- 'म्न-भ्यज्र-स्ताम्'एकैकोऽपीति- एषां गणानां प्रत्येकमपि मध्याभेदपाद-रूपतां याति, तत्र- म-य-र-सानां पादानां सत्त्वे याश्छन्दः संज्ञास्ता उपरिष्टादुत्ता एव, शेषाणां न-भ-ज-तानां पादानां संज्ञा अपि तदूहिता आह- अब्धिः, शङ्खः शुभ्रं, दुग्धमिति- अत्र कस्य का संज्ञेति विशिष्यानुक्तत्वात् तदनुसारिग्रन्थस्य चानुपलब्धत्वात् विशिष्य निर्णेतुमशक्यमिति विरमामः ।। अ० २, सू०-१४॥