________________
अज्विधिः
हालिकः > हालिओ, हालिओ "हालिकः” इति स्थिते “कगचजतदपयवांप्रायोलोपः “(प्रा. २. २) इति सूत्रेण 'क्' इत्यस्य लोपे ‘हालिअ' इति स्थिते “अत ओत् सोः” (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने 'सु' इत्यस्य ओत्वे "हालिओ" इति प्राप्ते “अदातो यथादिषु वा” (प्रा. १.१०) इति सूत्रेण आदि-आ' कारस्य “हस्व-अ" कारे विकल्पेन “हलिओ" इति रूपद्वयंसिद्धम्। ११. इत्सदादिषु सुबोधिनी - सदेति लुप्तसप्तम्यन्त पदम्। सदाशब्दे आदेः आत इत्स्यात् वा। सइ, सआ। आत इत्यधिकारो निवृत्तेः॥१०॥ सञ्जीवनी
सदा इति लुप्तसप्तम्यन्तम्। आत इत्यनुवर्तते वेति च। सदाशब्दे आकारस्य इदादेशो भवति वा। सइ, सआ, सदा। कगचादिना दलोपः॥ १०॥ प्राकृतमञ्जरी
अव्ययत्वात् सदेत्येतत् सप्तम्यन्तं पदं भवेत्।
आतस्तत्रत्विकारो वा स्यात् सदा सइ वा सआ॥११॥ मनोरमा
सदा इत्येवमादिष्वात इकारो भवति वा, सइ, सआ। तइ, तआ। जइ, जआ। सदा, तदा, यदा। अम्बिका ___“आदेरतः” इत्यतः (प्रा. १.१) “आदेः' पदस्यानुवृतिर्न भवति इति उदाहरणात् स्पष्टम्। परन्तु “अदातो यथादिषु वा” (प्रा. १.१०) इति सूत्रतः “आतः” वा” च पदद्वयमनुवर्तते। सूत्रार्थः
सदा आदि (तदा, यदा) संस्कृत शब्देषु दीर्घ 'आ' कारस्य विकल्पेन हस्व-इ-कारः भवति।