________________
76
प्राकृत व्याकरणम्
'ड्' कारे, चाडु' इति प्राप्ते " अदातोयथादिषुवा” (प्रा. १.१०) इति सूत्रेण 'आदि-आ' कारस्य विकल्पेन " ह्रस्व-अ" कारे 'चाडु' तथा 'चडु' इति रूपद्वयं सिद्धम् ।
दावाग्निः > दवग्गी, दावग्गी
'दावाग्नि' इति स्थिते “सन्धावचामज्लोपविशेषा वहुलम्” (प्रा. ४.१) इत्यनेन सूत्रेण सन्ध्यस्थ "आ" कारस्य “अ” कारे “दावग्मि” इति जाते अधो मनयाम्" (प्रा. ३.२) इति सूत्रेण 'न्' कारस्य लोपे 'दावगि' इति जाते “शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५० ) इति सूत्रेण 'ग्' इत्यस्य द्वित्वे “दादग्गि" इति स्थिते “सुभिस्सुप्सु दीर्घः” (प्रा. ५.१८) इति सूत्रेण इदन्तस्य दीर्घत्वे दावग्गी इति प्राप्ते “अदातो यथादिषु वा” (प्रा. १.१०) इति सूत्रेण 'आदि-आ' कारस्य विकल्पेन ह्रस्व-अ' कारे "दवग्गी" इति रूपद्वयंसिद्धम् ।
खादितम् > खइअं, खाइअं
“खादितम्” इति स्थिते, “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२ ) इति सूत्रेण त्द् वर्णयोः लोपे “खाइअम्” इति जाते “अदातो यथादिषु वा” (प्रा. १.१०) इति सूत्रेण आदि -आ' कारस्य विकल्पेन “हस्व-अ” कारे ‘“खइअम्" इति प्राप्ते "सोर्बिन्दुनपुंसके” (प्रा. ५. ३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) 'खइअं ' तथा विकल्पाभावपक्षे “खाइअं" इति रूपद्वयं सिद्धम् ।
संस्थापितम् > संठविअं, संठाविअं
“संस्थापितम्” इति स्थिते "ठाझागाश्च वर्तमानभविष्य द्विध्याद्येक वचनेषु” (प्रा. ८.२६) इति सूत्रेण 'स्था' इत्यस्य “ठा” आदेशे “संठापित” इति स्थिते “न बिन्दुपरे” (प्रा. ३.५६ ) इति सूत्रेण अपुंस्वार परे द्वित्व निषेधे, पोव:" (प्रा. २.१५) इत्यनेन 'प्' कारस्य 'व्' कारे "संठावित " इति जाते " कगचजतदपयवां प्रायो लोपः " ( प्रा. २.२) इत्यनेन सूत्रेण "त्" इत्यस्य लोपे "संठाविअ" इति प्राप्ते अदातो यथादिषु वा” (प्रा. १.१०) इति सूत्रेण 'आदि-आ' कारस्य 'अ' कारे विकप्लेन "संठविअ " इति प्राप्ते "सोर्बिन्दुनपुंसके" (प्रा. ५.३० ) इति सूत्रेण नपुंसके 'सु’ इत्यस्य बिन्दुत्वे (अनुस्वारे) 'संठषिअं, 'संष्ठाविअं' इति रूपद्वयं सिद्धम् ।
""