________________
अज्विधिः "सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “तालवेण्टअं", "अदातो यथादिषु वा” (प्रा. १.१०) इति सूत्रेण “आदि-आ" कारस्य विकल्पेन हस्व-अ' कारे, “तलवेण्टअं" रूपद्वयंसिद्धम्।
उत्खातम् > उक्खअं, उक्खाअं 'उत्खाल' इति स्थिते “उपरि लोपः कगडतदपषसाम्" (प्रा. ३. १) इति सूत्रेण "त्' इत्यस्य लोपे "उखात" इति स्थिते “शेषादेशेयोर्द्वित्वमनादौ” (प्रा. ३.५०) इति सूत्रेण ‘ख्' इत्यस्य द्वित्वे 'उख्खात' इति स्थिते, “वगेषु युजः पूर्वः” (प्रा. ३.५१) इति सूत्रेण द्वित्व 'ख' कारस्य 'क्' कारे उक्खात" इति स्थिते “कगचजतदपयवां प्रायो लोपः (प्रा. २.२) इति सूत्रेण “उक्खाअ" इति स्थिते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इति सूत्रेण 'सु' इत्यस्य नपुंसके बिन्दुत्वे (अनुस्वारे) "उक्खाअं" इति प्राप्ते “अदातो यथादिषु वा” (प्रा. १.१०) इति सूत्रेण "आ" कारस्य विकल्पेन हस्व-अ" कारे “उक्खअं" इति रूपद्वयंसिद्धम्।
चामरम् > चमरं, चामरं चामरम् इति स्थिते “अदातो यथदिषु वा" (प्रा. १.१०) इति सूत्रेण आदि-आ' कारस्य "हस्व-अ" कारे विकल्पेन “चमर" इति जाते "सोबिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) चामरं “चमरं" रूपद्वयं सिद्धम्।
प्रहारः > पहरो, पहारो “प्रहारः" इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इति सूत्रेण 'र' इल्यस्य लोपे पहार इति जाते अदातोयथादिषुवा" (प्रा. १.१०) इति सूत्रेण 'आ-कारस्य विकल्पेन हस्व-अ कारे ‘पहर' इति प्राप्ते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य 'ओत्वे' पहरो” तथा विकल्पाभाव पक्षे" पहारो" इति रूपद्वयं सिद्धम्।
याटु > चाडु, चडु 'चाटु' इति स्थिते “टोड़" (प्रा. २.२०) इत्यनेन सूत्रेण ट्' इत्यस्य