________________
74
प्राकृत व्याकरणम् 'थ्' कारस्य "ह" कारे सहा' इति प्राप्ते “अदातो यथादिषु वा" (प्रा. १.१०) इति सूत्रेण 'आ' (अन्त्य) कारस्य 'अ' कारे विकल्पेन 'तह इति रूपं, विकल्पाभाव पक्षे 'तहा' इति रूपद्वयं सिद्धम्।
. प्रस्तारः > पत्थरो, पत्थारो 'प्रस्तारः' इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' इत्यस्य लोपे ‘पस्तार' इति स्थिते “स्तस्य थः" (प्रा. ३.१२) इति सूत्रेण 'स्त्' इत्यस्य 'थ्' कारे ‘पथार' इति जाते "शेषादेशयोर्द्धित्व मनादौ” (प्रा. ३.५०) इति सूत्रेण 'थ्' इत्यस्य द्वित्वे ‘पथ्थार' इति स्थिते “वर्गेषु युजः पूर्वः” (प्रा. ३.५१) इति सूत्रेण 'थ्' कारस्य त्' कारे ‘पत्थार” इति जाते “अदातो यथादिषु वा” (प्रा. १.१०) इति सूत्रेण आ कारस्य (मध्यस्थ) विकल्पेन "अ" कारे 'पत्थर' इति प्राप्ते "अत ओत् सोः" (प्रो. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “ओत्वे “पत्थरो” इति रूपद्वयं सिद्धम्।
प्राकृतम् > पउअं पाउअं “प्राकृतम्" इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इति सूत्रेण 'र' इत्यस्य लोपे “पाकृतम्" इति स्थिते “उद्दत्वादिषु" (प्रा. १.२९) इति ‘सूत्रेण 'ऋ' कारस्य 'उ' कारे “पाकुतम्" इति प्राप्ते “कगचज तदपयवां प्रायो लोपः” (प्रा. २.२) इति सूत्रेण क्त् वर्णयोः लोपे "पाउअम्" इति जाते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण नपुंसके “सु" इत्यस्य “बिन्दुत्वे" (अनुस्वारे) “पाउअं रूपं सिद्धम्। “अदातो यथादिषु वा” (प्रा. १.१०) इति सूत्रेण “आदि-आ" कारस्य विकल्पेन 'हस्व-अ" कारे “पउअं" इति रूपमपि सिद्धम्।
तालवृन्तकम् > तालवेण्टअं, तलवेण्टअं "तालवृन्तकम्" इति स्थिते "इदृष्यादिषु" (प्रा. १.२८) इति सूत्रेण ऋकारस्य 'इ' कारे “तालविन्तक" इति जाते, "इत-एत पिण्डसमेषु" (प्रा. १.१२) इति सूत्रेण “इ” कारस्य 'ए' कारे “तालवेन्तक" इति स्थिते ‘न्त्' इत्यस्य “ण्ट्" इतिप्राप्ते “तालवन्ते ण्टः” (प्रा. ३.४५) सूत्रेण, “तालवेण्टक" इति स्थिते, “कगचजतपयवां प्रायो लोपः” (प्रा. २.२) इति सूत्रेण 'क्' इत्यस्य लोपे “तालवेण्टअ'' इति स्थिते,