________________
अज्विधिः
यथा चामर- दावाग्नि- प्रहारोत्खात - हालिकाः ।
तालवृन्तं तथा चाटु यथादिः स्यादयं गणः ॥ ॥
73
मनोरमा
अत इति निवृत्तम्। स्थान्यन्तरनिर्देशात् । यथा इत्येवमादिषु आतः स्थाने अकारादेशो भवति वा । जह, जहा । तह, तहा। पत्थरो, पत्थारो । पउअं, पाउअं। तलवेन्टअं, तालवेण्टअं । उक्खअं, उक्खाअं । चमरं, चामरं । पहरो, पहारो । चडु, चाडु । दवग्गी, दावग्गी । खइअं, खाइअं । संठविअं, संठाविअं । हलिओ, हालिओ ॥ यथा तथा प्रस्तार- प्राकृततालवृन्तकोत्खात-चामर - प्रहार - चाटु - दावाग्नि-खादित-संस्थापित- हालिकाः॥ अम्बिका
((
'आदेरतः (" आदेरतः” (प्रा. १.१) इत्यतः “आदेः” अनुवर्त्तते। 'अतः' पदस्यानुवृत्तिस्तु समाप्तम् । सूत्रे 'आतः' इति निर्देशात्। “मयूरमयूखयोर्खा वा' (प्रा. १.८) इत्यतः 'वा' इति पदस्यानुवृत्तित्वेऽपि सूत्रे पुनः उपादानत्वात्, 'आदि' पदेन सह 'अनादि' पदस्यापि ग्रहणं इति प्रतीयते ।
सूत्रार्थः
यथा आदि (तथा, प्रस्तार, प्राकृत, तालवृन्तक, उत्खात, चामर, प्रहार, चाटु, दावाग्नि, खादित, संस्थापित, हालिक) संस्कृत शब्देषु आदिषु अनादिषु (मध्यः, अन्त्यः) च विद्यमानौ दीर्घ आ कारस्य स्थाने प्राकृते विकल्पेन ह्रस्व-अ' कारः भवति ।
यथा- यथा > जह, जहा
'यथा' इति स्थिते “आदेर्यो जः” (प्रा. २.३१ ) इत्यनेन सूत्रेण आदि ‘य्’ इत्यस्य ‘ज्' कारे, “खघथ्धभां हः " (प्रा. २.२७) इत्यनेन 'सूत्रेण 'थ्' कारस्य 'ह' कारे 'जहा' इति प्राप्ते " अदातो - यथादिषु वा” (प्रा. १.१०) सूत्रेण अनादि (अन्त्य) 'आ' कारस्य "अ" कारे विकल्पेन जह, तथा जहा रुपद्वयं सिद्धम् ।
तथा > तह, तहा
" तथा " इति स्थिते "खघथधभां हः" (प्रा. २.२७) इत्यनेन सूत्रेण