________________
72
प्राकृत व्याकरणम् कगचादिना कतयोर्लोपः। पत्थरो, पत्थारो, प्रस्तारः। स्तस्य थः इति थः। तस्य द्वित्वे वर्गे युजः पूर्वः इति तः। परिआओ, पारिआओ, पारिजातः। कगचादिना जतयोर्लोपः। चमर, चामरं, चामरमेव। उक्खओ, उक्खाओ, उत्खातः। उपरि लोपः इत्यादिना तलोपः। शेषस्य खस्य द्वित्वे वर्गे युजः पूर्वः इति कः। हलिओ, हालिओ, हालिकः। व्यवस्थितविभाषया ब्राह्मणादौ तु नित्यमः। बम्हणो, ब्राह्मणः। होष्वित्यादिना हस्योपरि मस्थितिः। ठाविओ, स्थापितः। ष्ठा गतिनिवृत्तावित्यस्य णिजन्तस्य क्तप्रत्यये परे आविः क्ते इत्यादिना णिच्, आविरादेशः। अइदेशा बहुलमिति बहुलग्रहणात् स्थाध्यागा इत्यादिना स्था इत्यस्य ठादेशः। सन्धावचामित्यादिना आवेराकारलोपः। कगचादिना तलोपः। ब्राह्मणदित्वाद् आकारस्य नित्यमत्वम्। अथवा स्थापितशब्दस्य संस्कृतसिद्धस्यैवाङ्गीकारात्। अन्यत्रापि क्वचित् ठत्वं स्थकारस्यैष्यते बुधैरिति स्थस्य ठः। पो व इति वः। पूर्ववदन्यत्। पत्तं, प्राप्तम्। उपरि लोप इत्यादिना पलोपः। शेषादिना तस्य द्वित्वम्। पंसू, पांशुः। सुभिस्सुप्सु दीर्घ इति दीर्घः। अच्छरिअं, आश्चर्यं। श्वत्सप्सां छ इति श्वस्य छः। चौर्यसमेषु रिअ इति र्यस्य रिअ आदेशः। पुव्वण्हो, पूर्वाह्नः। उदूता मधुकादिषु इति उत्त्वम्। होष्वित्यादिना हस्योपरि णस्य स्थितिः। मज्झण्णो, मध्याह्नः। ध्यायोझः इति ध्यस्य झः। अस्य द्वित्वे वर्गे युजः पूर्व इति जः। मध्याहने हस्य इति हलोपः। नो ण इति णः। तस्य शेषादेशादिना द्वित्वम्। अवरण्हो, अपराह्नः। .
यथा तथा प्रवाहश्व प्रहारप्राकृते अपि। । प्रस्तारः पारिजातश्व चामरोत्खातहालिकाः॥ यथादयः स्युरीदृक्षा एषां ह्रस्वो विभाषया। ब्राह्मणः स्थापितः प्राप्तपांश्वाश्चर्यादयश्च ये॥
ये पूर्वाह्लादयस्तेऽपि नित्यं ह्रस्वा यथादिषु॥९॥ प्राकृतमञ्जरी
यथादिषु भवेदादेराकारस्य विकल्पतः। अत्त्वं जह जहा वा स्याच्चमरं वाथ चामरं॥ .