SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अज्विधिः 71 “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इति सूत्रेण “त्" इत्यस्य लोपे “ चउद्दशी” इति स्थिते "शषोः सः " (प्रा. २.४२) इति सूत्रेण “श्” कारस्य 'स्' कारे " चउद्दसी" इति प्राप्ते "चतुर्थी चतुर्दश्योस्तुना " (प्रा. १.९) इति विकल्प सूत्रेण " आदि-अ" कारस्य स्थाने " मध्यस्थ - तु” सहितेन "ओ-कारे", चोद्दसी' इति रूपं सिद्धम् । " दशादिषु हः” (प्रा. २.४४) इति सूत्रेण, पक्षे " चउद्दशी" इत्यस्य 'श्’ कारस्य 'ह' कारे " चोद्दही", "चउद्दही" इति रूपद्वयम् अपि प्राप्तम् । १०. अदातो यर्थादषु वा सुबोधिनी अत इत्यधिकारो निवृत्तः। यथादिष्वादेराकारस्य अकारादेशः स्याद्वा । यथा तथा प्रवाहश्च प्रहारप्राकृतेष्वपि । प्रस्तावः पारिजातश्च चामरोत्खातहालिकाः ॥ यथादयः स्युरीदृक्षा येषां ह्रस्वो विकल्प्यते । जह, जहा; तह तहा। पवहो, पवाहो; पहरो, पहारो । पउअं, पाउअं। पत्थवो, पत्थावो । परिआओ, परिआओ। चमरं, चामरं । उक्खओ, उक्खाओ । हलिओ, हालिओ । अत्र वाशब्देऽनुवर्तमानेऽपि पुनर्वाग्रहणं यथादिष्वेव ह्रस्वत्वविकल्पसंकोचार्थम् । तथा चोक्त्म ब्राह्मणः स्थापितप्राप्तपाश्र्वाश्वर्यादयश्च ये । ये पूर्वाह्लादयस्तेऽपि नित्यं ह्रस्वा यथादिषु ॥ बम्हणो। ठविओ। पत्तं । पंसू । अच्छरिअं । पुव्वण्हो । मज्झण्णो । अवरहो। एते च पूर्वाह्णादयः ॥ ९ ॥ सञ्जीवनी अल इति निवृत्तम् । यथा इत्येवंप्रकारेषु शब्देषु आत आकारस्य अकारादेशो भवति । वाशब्देऽनुवर्तमाने पुनर्वाग्रहणाद् अनादेरपि । स्थान्यादेशयोस्तकारोऽसन्देहार्थः । जह, जहा, यथा । आदेर्यो जः इति जः । तह, तहा तथा । खघथादिना थस्य हः । पवहो, पवाहो, प्रवाहः । पहरो, पहारो, प्रहारः । पअअं, पाअअं, प्राकृतम् । ऋतोऽत् इत्यत्त्वम् ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy