________________
70
प्राकृत व्याकरणम् . प्राकृतमञ्जरी
वा चतुर्थी चतुर्दश्योरत ओत्वं तुना सह।
भवेच्चोथो चउत्थी च चोद्दही वा चउद्दही॥९॥ मनोरमा
एतयोस्तुना सहादेरत ओत्वं भवति वा। चोत्थी, चउत्थी। चोद्दही, चउद्दही॥ अम्बिका ___“आदेरतः” (प्रा. १.१) इत्यतः "आदेः" तथा "अतः", ओ वदरे देन" (प्रा. १.६) इत्यतः ओ" कारः, "मयूरमयूखयोर्खा वा” (प्रा. १.८) इत्यतः 'वा' इति एतानि पदानि अनुवर्तन्ते। सूत्रार्थः
"चतुर्थी" तथा "चतुर्दशी" द्वयोः शब्दयोः आदि-अ" कारस्य मध्यस्थ 'तु' वर्णेन सह प्राकृते विकल्पेन "ओ" कारः भवति। यथा
__ चतुर्थी > चोत्थी, चउत्थी चतुर्थी इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इति सूत्रेण 'र' इत्यस्य लोपे, “शेषादेशोद्वित्वमनादौ (प्रा. ३.५०) इत्यनेन सूत्रेण 'थ' इत्यस्य द्वित्वे "चतुथ्थी" इति प्राप्ते “वर्गेषु युजः पूर्वः" (प्रा. ३. ५१) इति सूत्रेण "थ्" कारस्य 'त्' कारे “चतुत्थी" इति स्थिते "कगचजतदपयवां प्रायो लोपः (प्रा. २.२) इति सूत्रेण 'तु' इत्यस्य 'त्' कारस्य लोपे “चउत्थी" इति प्राप्ते "चतुर्थी चतुर्दश्योस्तुना" (प्रा. १.९) इति सूत्रेण विकल्पेन 'तु' इत्यनेन सह आदि 'अ' कारस्य. ओत्वे “चोत्थी" इति रूपं सिद्धम्।
चतुर्दशी > चोदसी, चउद्दसी, चोदही, चउद्दही, चतुर्दशी इति स्थिते, “सर्वत्र लवराम्" (प्रा. ३.३) इति सूत्रेण 'र' इत्यस्य लोपे “चतुदशी" इति स्थिते, “शेषादेशयाँद्वित्वमनादौ" (प्रा. ३.५०) इति सूत्रेण “द" कारस्य द्वित्वे "चतुद्दशी" इति स्थिते,