________________
अज्विधिः
69 "आदि-अकारः ‘यू' वर्णेन सह "ओ"कारत्वे विकल्पत्वेन “मोर" इति प्राप्ते “अत्त ओत् सोः' (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विमक्ति एकवचने 'सु' इत्यस्य “ओत्वे", “मोरो” रूपं, सिद्धम्।
'ओ-कारस्य' अभावपक्षे 'कगचजतदपयवां प्रायो लोपः (प्रा. २. २) इत्यनेन सूत्रेण 'य' कारस्य लोपे “मऊरो” इति रूपं सिद्धम्।
मयूखः > मोहो, मऊहो "मयूखः" इति स्थिते “मयूरमयूखयोर्खा वा” (प्रा. १.८) इति सूत्रेण 'आदि-अ' कारस्यस्थाने “यू” इति सहितेन, प्राकृते 'ओ'-कार त्वात् मोख' इति जाते “खघथधभां हः” (प्रा. २.२७) इति सूत्रेण 'ख' कारस्य 'ह' कारे “मोह" इति स्थिते, “अत ओत् सोंः” (प्रा. ५.१) इति सूत्रेण अदन्तस्य 'प्रथमाविमक्ति एकवचने "सु" इत्यस्य "ओत्वे", "मोहो” इति रूपं सिद्धम्। .
__ ओ-कारस्य अमावपक्षे “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण “य्” कारस्य लोपे “मऊहो” इति रूपं सिद्धम्। समन्वयः
सूत्रस्थ ‘य्या', “यू” इति वर्णस्य "तृतीया विभक्ति एकवचनम्। तस्मात् उपरोक्त प्रकारेण अर्थं घेदितव्यम्। ९. चतुर्थी चतुर्दश्योस्तुना सुबोधिनी
चतुर्थीचतुर्दशीशब्दयोः तुशब्देन सह आदेरत ओत्वं स्याद्वा। चोत्थी, चउत्थी। चोदही, चउदही॥८॥ सञ्जीवनी .
तुनेति तृतीयान्तम्। वेत्युनुवर्तते। एतयोः शब्दोस्तुना तुशब्देन सहादेरत ओत्वं वा भवति। चोत्थी, चउत्थी चतुर्थी। अकारोकारयोरेकत्र ओत्वम्। अन्यत्र कगचादिना तलोपः। चोद्दही, चउद्दही, चतुर्दशी। दशादिषु हः इति शस्य हः। पूर्ववदन्यत्। अन्त्यस्य हलः इति सुलोपः।