SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 68 प्राकृत व्याकरणम् ८. मयूरमयूखयोर्खा वा सुबोधिनी मयूरमयूखशब्दयोः यूशब्देन सह आदेरत ओत्त्वं स्याद्वा। मोरो, मऊरो। मोहो, मऊहो॥ सखीवनी य्वा इति तृतीयान्तम्। ओ इत्यनुवर्तते उत्तररत्रापि। एतयोः शब्दयोः य्वा यूशब्देन सहादेरत ओत्वं वा भवति। मोरो, मऊरो, मयूरः। अकारयकारयोरेकत्र ओत्वम्। तेन मस्य सस्वरत्वम्। अन्यत्र कगचादिना यलोपः। मोहा, मऊहा, मयूखाः। जस्प्रत्यये कृते खघथादिना खस्य हः। जस्शसोर्लोपः इति जसो लोपः। ततः प्रत्ययलोपपरिभाषया जस्ङस्यांसु दीर्घ इति दीर्घः। पूर्ववदोत्वम्॥ ॥ प्राकृतमज्जरी यूकारेण सहौत्वं स्याद् वा मयूरमयूखयोः। मोरो मऊरो मोहो वा मऊहो वा मताविमौ॥८॥ मनोरमा 'मयूर' 'मयूख' इत्येतयो!शब्देन सहादेरतः ओत्वं वा भवति। मोरो, मऊरो मोहो, मऊहो॥ अम्बिका “आदेरतः" (प्रा. १.१) इत्यतः “आदेः” तथा “अतः", "ओ वदरे देन" (ण. १.६) इत्यतः "ओ" कारः च एतानि पदानि अनुवर्त्तन्ते। सूत्रार्थः मयूरः मयूखः इति संस्कृत शब्दयोः आदि “अ''-कारः मध्यवर्ती 'यू' वर्णेन सह प्राकृते विकल्पेन "ओ" कारः भवति। यथा मयूरः > मोरो, मऊरो "मयूरः' इति स्थिते “मयूरमयूखयोर्खा वा” (प्रा. १.८) इति सूत्रेण
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy