________________
67
अज्विधिः अन्यथा "बोअरं" इति अनभीष्टं रूपं लभ्यते। अतः "लवणनवमल्लिकयोर्वेन" (प्रा. १.७) इति सूत्रे 'व' कारस्य आशयेन 'व्' तथा तदुत्तरवर्तिनः 'अ' कारस्यापि ग्रहणम्। ७. लवणनवमल्लिकयोर्वेन प्राकृतमञ्जरी
ओकारो वेन लवण-नवमल्लिकयोरतः।
लोणं णोमल्लिएति स्याल्लवणं नवमल्लिका॥७॥ मनोरमा .. लवणनबमल्लिकयोरादेरतो वकारेण सह ओकारः स्यात्। लोणं, णोमल्आि। अम्बिका
"आदेरतः" (प्रा. १.१) इत्यतः “आदेः" तथा "अतः”, ओ बदरे देन" (प्रा. १.६) इत्यस्मात् सूत्रात् "ओ" इति पदानि अनुवर्तन्ते। सूत्रार्थः
लवणम्, नवमल्लिका इति संस्कृत शब्दयोः आदि 'अ' कारः 'ब' कारेण सह प्राकृते 'ओ' कारः भवति।
_ लवणम् > लोणं लवणम् इति स्थिते “लवण नवमल्लिकयोर्वेन" (प्रा. १.७) इति सूत्रेण 'आदि-अ' कारस्यस्थाने व कारः सहितेन प्राकते 'ओ' कारः त्वात् “लोण' इति स्थिते “सोबिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रैण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) लोणं" इति रूपं सिद्धम्।
नवमल्लिका > णोमल्लिआ "नवमल्लिका” इति स्थिते “नोणः सर्वत्रः" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' इत्यस्य “ण” कारे, “णवमल्लिका” इति प्राप्ते “लवणनवमल्लिकयोर्वेन" (प्रा. १.७) इति सूत्रेण “आदि-अ "कारस्य "व" कार सहितेन ओ-कारे “णोमल्लिका" इति स्थिते “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इति सूत्रेण “क्" कारस्य लोपे “णोमल्लिआ" इति रूपं सिद्धम्।