________________
66
सञ्जीवनी
बदरशब्दे दकारेण सहादेरत ओत्वं भवति । बोरं, बदरम् । नपुंसके सोर्बिन्दुः इति बिन्दुः । 'ओत्वं सह वकारेण लवणेऽप्यस्य चेष्यते ' । लोणं, लवणम् । 'ओदेरोत्वं विकल्पेन स्यादार्द्रापितशब्दयोः' । ओल्लं, अल्लं; अद्दं, आर्द्रम्। यत्र पक्षे ओत्वं नास्ति तत्र अदातो यथादिषु वा इत्यत्वम् । द्रे रो वा इति रेफलोपः । 'आर्दशब्दे दकारस्य लादेशो वेष्यते बुधैः' इति वा लत्वम् । पक्षे सर्वत्र लवरामिति रलोपः । शेषादेशादिना द्वित्वम् । ओप्पिअं, अप्पिअं अर्पितम् । लोपे द्वित्व पूर्ववत् ॥ ६ ॥
प्राकृतमञ्जरी
आदेर्बदरशब्देऽस्मिन्नत ओत्वं विधीयते ।
दकारेण सहैवातो बदरं वोरमुच्यते ॥ ६ ॥
मनोरमा
,
वदर शब्दे दकारेण सहादेरत ओत्वं भवति ।
अम्बिका
प्राकृत व्याकरणम्
प्रथमसूत्रं “आदेरतः” (प्रा. १.१) इत्यतः “आदेः” तथा “अतः” इति पददवयमनुवर्त्तते ।
सूत्रार्थः
संस्कृत बदरशब्द स्य " आदि - अकारः मध्यस्थ 'द' कारसहितेंन प्राकृते "ओ" कारः भवति ।
बदरम् > बोरं
"बदरम्" इति स्थिते' "ओ बदरे देन" (प्रा. १. ६ ) इति सूत्रेण "आदिअ कारेण सह 'द' कारस्य "ओत्वे", बोर" इति स्थिते "सोर्बिन्दुनपुंसके” (प्रा. ५.३० ) इति सूत्रेण नपुंसके “सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) "बोरं " इति रूपं सिद्धम्।
समन्वयः
'द' कारस्य तात्पर्यम् तु न केवलम् " द्” इति व्यञ्जन वर्णः, परन्तु " द्” इति व्यञ्जनेन सह तदुत्तरवर्त्तिनः 'अ' कारस्यापि ग्रहणम्' ।