________________
78
प्राकृत व्याकरणम् यथा
सदा > सइ, संआ "सदा” इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण 'द्' कारस्य लोपे “सआ” इति रूपं प्राप्ते, “इत्सदादिषु" (प्रा. १.११) इति सूत्रेण "आ" कारस्य विकल्पेन 'इ' कारे “सइ"इति रूपद्वयंसिद्धम्।
तदा > तइ, तआ “तदा" इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण 'द्' कारस्य लोपे “तआ" इति पदं प्राप्ते, “इत्सदादिषु" (प्रा. १.११) इति सूत्रेण "आ" कारस्य विकल्पेन 'इ' कारे तइ" इति पदद्वयंसिद्धम्।
यदा > जई, जआ "यदा" इति स्थिते "कगचजतदपयवां' प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण 'द्' कारस्य लोपे ‘यआ' इति स्थिते “आदेर्यो जः" (प्रा. २.३१) इत्यनेन सूत्रेण आदि-'य' इत्यस्य 'ज' कारे "जआ" इति प्राप्ते, "इत्सदादिषु" (प्रा. २.२२) इति सूत्रेण "आ" कारस्य विकल्पेन 'इ' कारे “जइ" इति रूपद्वयंसिद्धम्। १२. इत एत् पिण्डसमेषु सुबोधिनी
पिण्डसमेषु इत इकारस्य एत्त्वं स्याद्वा। पिण्डसिंदूरधम्मिल्लविष्णुविल्या सविष्टयः।
इत्याद्याः पिण्डतुल्पाः स्युर्येषामेत्त्वं विधीयते॥ पेंडं, पिंडं। सेंदूरं, सिंदूरं। धम्मेल्लो, धम्मिल्लो। वेण्हू, विण्हू। वेल्लं, विल्लं। वेट्ठी, विट्ठी।
व्यवस्थितविकल्पत्वात् किंशुके नित्यमेदितः। केसुअं॥ . सञ्जीवनी
वेत्यनुवर्तते। पिण्ड इत्येवं सदृशेषु शब्देषु इकारस्य एत्वं वा