________________
अज्विधिः
79
4.
भवति । पेण्डं, पिण्डं, पिण्डमेव । सेंदूरं, सिंदूर, सिन्दूरमेव । नञो हलीति नस्य बिन्दुः । तस्य कपि तद्वगन्ति इति वा नत्वम् । धम्मेल्लो, धम्मिलो, धम्मिल्ल एव । बेण्हू, बिहू, बिष्णुः । ह्रस्रष्णक्ष्णश्नाम् इति ष्णशब्दस्य ह आदेशः । सुभिस्सुप्सु दीर्घ इति दीर्घः । अन्त्यस्य हल इति सुलोपः । वेल्लं, बिल्लं, विल्वम् । सर्वत्र लवरामिति वलोपः । शेषादेशादिना लस्य द्वित्वम् । वेट्ठी, विट्ठी, विष्टिः । ष्ठस्य ठ इति ठः ।
पिण्डसिन्दूरधम्मिल्लविष्णुबिल्वाः सविष्टयः ।
इत्याद्याः पिण्डतुल्याः स्युर्येषामेत्त्वं विभाषया ॥ व्यवस्थितविकल्पत्वात् किंशुके नित्यमेदितः । केशुओ, किंशुकः । मांसादिषु वेति बिन्दुलोपः ॥
मनोरमा
“पिण्ड” इत्येवंसमेषु इकारस्यैकारादेशो भवति वा । पेण्डं, पिण्डं, द्दा, णिद्दा, सेन्दूरं, सिन्दूरं, धम्मेलं धम्मिल्लं, चेन्धं, चिन्धं, वेण्हू, विहू, पेट्ठ, पिट्ठ ॥ पिण्ड - निद्रा- सिन्दूर, धम्मिल्ल - चिह्न -विष्णुपिष्टानि ॥ समग्रहणं संयोगपरस्योपलक्षणार्थम् ॥
अम्बिका
“आदेरतः” (प्रा. १.१) इत्यतः “आदेः” पदस्यानुवृत्तिर्भवति इति उदाहरणात् स्पष्टम्। परन्तु “अदातोयथादिषु वा ” ( प्रा. १. १०) इति सूत्रतः “वा” पदस्यानुवृत्तित्वात् " आदि" तथा " अनादि" इति द्वयोः पदयोः ग्रहणम् इति तात्पर्यम् ।
सूत्रार्थः
'पिण्डम्' आदि सदृशेषु (निद्रा, सिन्दूरम्, धम्मिल्लम्, चिह्नम्, विष्णुः, पिष्टम्) संस्कृत शब्देषु अनादौ विद्यमाने " ह्रस्व-इ” कारस्य स्थाने प्राकृते 'ए' कारः भवति विकल्पेन ।
यथा
पिण्डम् > पेण्डं, पिण्डं
" पिण्डम्” इति स्थिते " इत एत् पिण्डसमेषु ” (प्रा. १.१२ ) इति