________________
प्राकृत व्याकरणम् सूत्रेण “आदि-इ” कारस्य 'ए' कारे विकल्पेन “पेण्ड' इति स्थिते, "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे “पेण्डं, पिण्डं" च रूपद्वयं सिद्धम्।
निन्द्रा > णेद्दा, णिद्दा "निद्रा" इति स्थिते “नोणः सर्वत्र' (प्रा. २.४२) इति सूत्रेण 'न्' इत्यस्य 'ण' कारे 'णिद्रा' इति स्थिते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'र' कारस्य लोपे "णिदा” इति जाते "शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण 'द्' कारस्य द्वित्वे "णिद्दा" इति प्राप्ते "इत एत्' पिण्डसमेषु" (प्रा. १.१२) इति सूत्रेण आदि 'इ' कारस्य विकल्पेन 'ए' कारे “णेद्दा” इति रूपं सिद्धम्।
सिन्दूरम् > सेन्दूरं, सिन्दूरं "सिन्दूरम्” इति स्थिते "इत एत् पिण्ड्स मेषु” (प्रा. १.१२) इति सूत्रेण “आदि-इ" कारस्य 'ए' कारे (विकल्पेन) 'सेन्दूर' इति जाते “यायि तदवर्गान्तः" (प्रा. ४.२७) इति सूत्रेण ययि परे बिन्दु तदवर्गान्तत्वात् 'सेन्दूर' इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे “सेन्दूरं तथा विकल्प अभावपक्षे “सिन्दूरं" इति रूपं सिद्धम्।
धम्मिल्लम् > धम्मेल्लं, धम्मिल्लं “धम्मिलम्” इति स्थिते “इत एत् पिण्डसमेषु' (प्रा. १.१२) इति सूत्रेण “इ” कारस्य (विकल्पेन) 'ए' कारे 'धम्मेल्ल'' इति प्राप्ते "सोर्बिन्दुनपुंसके” इति (प्रा. ५.३०) सूत्रेण नपुंसके “सु" इत्यस्य बिन्दुत्वे “धम्मेल्लं' तथा विकल्प अभाव पक्षे “धम्मिल्लं' रूपं सिद्धम्।
चिह्नम् > चेन्धं, चिन्धं “चिह्नम्” इति ‘स्थिते “चिह्ने न्धः” (प्रा. ३.३४) इति सूत्रेण '-' इत्यस्य स्थाने 'न्ध्' कारे “चिन्ध” इति' स्थिते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इति सूत्रेण “चिन्धं" इति प्राप्ते “इत एत् पिण्ड समेषु" (प्रा. १.१२) इति सूत्रेण “इ” कारस्य 'ए' कारे (विकल्पेन) "चेन्धं" रूपं सिद्धम्'।