________________
81
अज्विधिः
विष्णुः > वेण्हू, विण्हू . "विष्णुः" इति स्थिते "ह्नस्नष्णक्ष्णश्नां पहः" (प्रा. ३.३३) इति सूत्रेण 'ष्ण' इत्यस्य "ण्ह" कारे “विण्हु" इति स्थिते “सुभिस्सुप्सु दीर्घः" (प्रा. ५.१८) इत्यनेन उकारान्त शब्दस्य 'सु' प्रत्यये, दीर्घत्वे "विण्ह" इति प्राप्ते "इत एत् पिण्डसमेषु" (प्रा. १.१२) इति सूत्रेण 'इ' इत्यस्य "ए" कारे (विकल्पेन) वेण्हू" इति रूपं सिद्धम्।
पिष्टम् > पेठें, पिठें। "पिष्टम्” इति स्थिते “ष्टस्य ठः" (प्रा. ३.१०) इति सूत्रेण 'पिठ' इति स्थिते, “शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इति सूत्रेण 'ठ्' इत्यस्य द्वित्वे "पिठ्ठ" इति स्थिते, 'वर्गेषु युजः पूर्वः" (प्रा. ३.५१) इति सूत्रेण 'ठ्' इत्यस्य 'ट्' कारे “पिट्ठ" इति प्राप्ते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) "पिटुं” तथा “इत एत् पिण्डसमेषु" (प्रा. १.१२) इति सूत्रेण 'इ' कारस्य 'ए' कारे “पेटुं" इति रूपद्वयं प्राप्तम्।
समन्वयः
भामह आचार्येण “सिन्दूरम्” इति शब्दे 'न्' इत्यस्य “नजोर्हलि" (प्रा. ४.१४) इत्यनेन सूत्रेण अनुस्वारं (बिन्दु) न कृतम्। प्राकृत नाटके सिन्दूर, सिदूरं उभय लभ्यते। १३. अत् पथिहरिद्रापृथिवीषु सुबोधिनी
एविकारस्याऽकारादेशः स्यात्। पहो। हलद्दा। पुहवी॥ ॥ सञ्जीवनी
इत इत्यनुवर्तते ईत् सिंहजह्वयोरिति यावत्। एषु शब्देष्विकारस्य अकारादेशो भवति। पहो, पन्थाः। नजोहलीति नस्य बिन्दुः। तस्य मांसादिसु वेति लोपः, खघथादिना थस्य हः। अनेन इकारस्य अत्वम्। तस्य अकारस्य क्वचिदपि लोप इति लोपः। हलद्दा, हलद्दी, हरिदा। हरिद्रादीनां रोल इति लः। द्रे रो वेति रेफलोपः। यदा इलद्दीति, तदाऽऽदीतौ बहुलमिति ईप्रत्ययः। पुहवी, पृथिवी। उदृत्वादिष्विति ऋकारस्य उः॥ ॥