________________
82
प्राकृत व्याकरणम् प्राकृतमञ्जरी
अत्त्वं पथिहिरिद्रायां पृथिव्याञ्च भवेदितः।
पन्थाः पहो हरिद्रापि हलद्दा पुहवी परा॥ ॥ मनोरमा
पथ्यादिषु शब्देषु इकारस्याकारो भवति। पहो, हलद्दा, पुहवी। अम्बिका
"इत एत् पिण्डसमेषु' (प्रा. १.१२) इति सूत्रतः “इतः” इति पदमनुवर्तते। सूत्रार्थः
पथिन्, हरिद्रा, तथा पृथिवी आदि संस्कृत शब्देषु “हस्व-इ" कारस्य स्थाने प्राकृते “हस्व-अ" कारः भवति।
पन्थाः > पहो “पथिन्” इति स्थिते, “अत् पथिरिद्रापृथिवीषु" (प्रा. १.१३) इति ‘सूत्रेण हस्व इ' कारस्य' 'अ' कारे “पथन्” इति स्थिते, "खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'थ्' कारस्य 'ह' कारे “पहन्" इति स्थिते “अन्त्यहलः” (प्रा. ४.६) इति सूत्रेण 'न्' कारस्य लोपे “पह" इति स्थिते “अत ओत् सोः' (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे” “पहो" इति रूपं सिद्धम्।
हरिद्रा > हलद्दा 'हरिद्रा' इति स्थिते “अत् पथिहरिद्रापृथिवीषु" (प्रा. 2.23) इत्यनेन सत्रेण 'इ' कारस्य' 'अ' कारे, "हरदा” इति स्थिते, "हरिद्रादीनां रोलः" (प्रा. 2.30) इति सूत्रेण 'र' कारस्य 'ल' कारे, हलद्रा" इति स्थिते, “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'र' इत्यस्य लोपे "हलदा" इति स्थिते "शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इति सूत्रेण 'द्' इत्यस्य द्वित्वे "हलद्दा" इति रूपं सिद्धम्।