________________
अज्विधिः
पृथिवी > पुहवी. “पृथिवी” इति स्थिते “उदृत्वादिषु" (प्रा. १.२९) इत्यनेम सूत्रेण “ऋ" कारस्य “उ” कारे "पुथिवी" इति स्थिते, “खघथधभां हः" (प्रा. २.२७) इत्यनेन सूत्रेण 'थ्' कारस्य 'ह' कारे 'पुहिवी' इति स्थिते, “अत् पथिहरिद्रा पृथिवीषु” (प्रा. १.१३)। इति सूत्रेण ‘हस्व-इ' कारस्य 'अ' कारे “पुहवी" इति रूपं सिद्धम्। १४. इतेस्तः पदादेः
सुबोधनी
आदिभूतस्य इतिशब्दस्य यस्तिस्तस्याऽकारादेशः स्याद् वा। इअ विहसंतो सुहवं। आदेरिति किम्? हरो त्ति, हर इति। एरिति वक्तव्ये तेरिति तकारग्रहणं किम्? प्रथमेकारस्य मा भूदिति॥ ॥ सञ्जीवनी
अदित्यनुवर्तते। आदिभूते इतेः इतिशब्दसम्बन्धी यस्तिकारः तस्य इस्थाने अकारादेशो भवति। इअ विहसन्तो अहअं। कगचादिना तलोपः। आदेरिति किम्? हरो त्ति, हर इति। हरशब्द अत ओत् सोरित्योत्त्वम्। इतिशब्दे नीडादिष्विति तस्य द्वित्वम्। ततः सन्धावचामित्यादिना इकारलोपः। एवं सुधणो त्ति, सुजन इति। तेरिति किम्।? आदेरिकारस्य मा भूत्॥ ॥ प्राकृतमञ्जरी
आदेरित्यत्र वाक्यादेरिति शब्दस्य यस्तुतः।
इतस्तद्वर्तिनः प्रोक्तमत्त्वमित्युच्यतामि॥१४॥ मनोरमा
पदादेरिति शब्दस्य यस्तकारस्तस्मात् परस्येकारस्य अकारो भवति। इअ उअह अण्णहा वअणं। इअ विअसन्तीउ चिरं।। इति पश्यतान्यथावचनम् इति विकसन्त्यश्चिरम। पदोदेरिति वचनादिह न भवति-पिओ त्ति (प्रियइति)।