________________
84
प्राकृत व्याकरणम् अम्बिका
"इत एत् पिण्डसमेषु" (प्रो १.१२) इति सूत्रतः “इतः” “अत् पथिहरिद्रापृथिवीषु" (प्रा. १.१३) इत्यस्मात् सूत्रात् “अत्" पदद्वयमनुवर्तते। सूत्रार्थः
पदस्यादौ विद्यमाने संस्कृत “इति" शब्दस्य 'त्' वर्णादपरं स्थित 'इ' कारस्य प्राकृते 'हस्व-अ कारः (अत्) भवति। यथा"इति पश्यतान्यथावचनम्।" > इअ उअह अण्णहा
वअणं। “इति" इत्यस्य "इतेस्तः पदादेः" (प्रा. १.१४) सूत्रेण अत्र पदादि त्वात् 'त्' वर्णथि 'इ' कारस्य 'अ'कारे "इत' इतिप्राप्ते “कगचजतदपयवां प्रायो सोपः (प्रा. २.२) इत्यनेन सूत्रेण 'त्' इत्यस्य लोपे 'इअ' इति पदं सिद्धम्। "इति विकसन्त्यश्चिरम्"। > इअ विअसन्तीउ चिरं
पूर्ववत्। समन्वयः
अपदादौ "इति" शब्दस्य ‘अन्तिम-इ' कारस्य स्थाने 'अ' कारः न भवति। सूत्रे “पदादैः” इति ग्रहणस्य इदमेव तात्पर्यम्। यथा
"प्रिय इति" > पिओति "प्रिय इति” स्थिते “सर्वत्र लवराम्” (प्रो. 3.3) इति सूत्रेण 'र' कारस्य लोपे “पिय ‘इति' स्थिते कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इति सूत्रेण 'य' इत्यस्य लोपे “पिअ इति' स्थिते “अत
ओत् सोः” (प्रा. ५.१) इति सूत्रेण अदन्तस्य 'सु' इत्यस्य ओत्वे “पिओ इति' स्थिते “सन्धावचामज्लोपविशेषा वहुलम्” (प्रा. ४.१) इति सूत्रेण 'इ' इत्यस्य लोपे, 'त्' कारस्य “नीड़ादिषु" (च) (प्रा. ३.५२) इत्यनेन सूत्रेण द्वित्वे "पिओत्ति" इति रूपं सिद्धम्।