________________
85
अज्विधिः १५. उदिक्षुवृश्चिकयोः सुबोधिनी
एतयोः शब्दयोरिकारस्योत्त्वं स्यात्। उच्छ्। विञ्छुओ॥ सञ्जीवनी .
एतयोरिकारस्य उत्त्वं भवति। उच्छू, इक्षुः। अक्ष्यादिषु छ इति क्षस्य छः। तस्य द्वित्वे वर्गे युजः पूर्व इति चः। सुभिस्सुप्सु दीर्घ इति दीर्घः। विञ्छुओ, वृश्विक। वृश्विके छ इति श्वस्य ञ्छः। इदृष्यादिषु वेति ऋकारस्य इत्वम्। कगचादिना कलोपः॥ प्राकृतमञ्जरी
इतस्तावदुकारः स्यादिक्षुवृश्चिकशब्दयोः।
इक्षुरुच्छू भवत्यत्र वृश्चकश्चापि विच्छुओ॥ मनोरमा
इक्षुवृश्चिकयोरितः उत्वं भवति। उच्छू। विच्छुओ। अम्बिका
"इत एत् पिण्डसमेषु" (प्रा. १.१२) इत्यतः “अतः” पदमनुवर्तते। सूत्रार्थः
"इक्षु", वृश्चिक" एतयोः संस्कृत शब्दयोः हस्व 'इ' कारस्य स्थाने प्राकृते हुस्व “उ” कारः भवति। यथा
इक्षु > उच्छू 'इक्षु' इति स्थिते “अक्ष्यादिषु च्छः” (प्रा. ३.३०) इति सूत्रेण 'क्ष' इत्यस्य ‘च्छ' कारे "इच्छु' इति स्थिते "उदिक्षवश्चिकयोः" (प्रा. १.१५) इति सूत्रेण “इ” कारस्य “उ” कारे 'उच्छु' इति प्राप्ते "सुभिस्सुप्सु दीर्घः' (प्रा. ५.१८) इत्यनेन सूत्रेण उदन्तस्य 'सु' इत्यस्य दीर्घे "उच्छ्" इति रूपं सिद्धम्।