________________
86
प्राकृत व्याकरणम्
वृश्चिक:> विच्छुओ
" वृश्चिकः" इति स्थिते " इदृष्यादिषु ” ( प्रा. १.२८) इत्यनेन सूत्रेण 'ऋ' कारस्य 'इ' कारे 'विश्चिक" इति स्थिते उदिक्षुवृश्चिकयोः (प्रा. १.१५) इत्यनेन सूत्रेण 'श्चि' इत्यस्य 'इ' कारस्य "उ" कारे "विश्चुक” इति स्थिते, “वृश्चिके ञ्छः " (प्रा. ३.४१) इत्यनेन सूत्रेण " च्" इत्यस्य “ञ्छ्” कारे “विञ्छुक ” इति जाते " कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे "विञ्छुअ" इति प्राप्ते 'अत ओत् सोः " (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ओत्वे “विच्छुओ” इति रूपं सिद्धम् । १६. ओ च द्विधा कृञः
"
सुबोधिनी
कृञ इत्यस्य धातोरुपपदस्य द्विधाशब्दस्येकारस्तस्य ओत्वं स्यात्, चकारादुत्त्वमपि ।
दोहाइअं दुहाइअं । द्विधाकृतम् । 'ओत्वं सह नकारेण स्यादितो निरिपि वा । ओज्झरो, णिज्झरो ॥१५॥
सञ्जीवनी
उदित्यनुवर्तते ॥ कृञः डुकृञ् करणे इत्यस्य धातोः सम्बन्धिनो द्विधा इत्येतस्य य इकारस्तस्य उकारादेशो भवति, ओकारादेशश्र । दुहाइअं, दोहाइअं । द्विधाकृतम् । सर्वत्र लवरामिति वलोपः । खघथादिना धस्य हः । इदृष्यादिषु वेति ऋकारस्य इत्वम् । 'ओत्वं सह नकारेणस्यादितो निरिऽपि बा' । ओज्झरो, णिज्झरो, निझरः । सर्वत्र लवरामिति रेफलोपः । शषस्य द्वित्वे वर्गे युजः पूर्व इति जः ॥ १५ ॥
प्राकृतमञ्जरी
कृञोऽधस्ताद् द्विधाशब्दे य इकारः प्रयुज्यते । तस्य स्यादोत्त्वमुत्त्वं च चकारेणेति द्दश्यते ॥ द्विधाक्रियत इत्यत्र दोहाइज्जइ जायते । दुहाइज्जइ वापि स्यादेवं रूपान्तरेष्वपि ॥ १६॥