________________
अज्विधिः मनोरमा
कृञ् धातुप्रयोगे द्विधाशब्दस्यौकारौ भवति चकारादुत्वं च, 'द्विधाकृतम्, दोहाइअं' द्विधाक्रियते-दोहाइज्जइ, दुहाइज्जइ॥ अम्बिका ___ "इत एत् पिण्डसमेषु” (प्रा. १.१२) इत्यतः “इत" पदमनुवर्तते। सूत्रे "च" इत्यस्य प्रयोगत्वात् “उदिक्षुवृश्चिकयोः" (प्रा. १.१५) इत्यतः 'उत्व' इत्यस्य अनुवर्त्तनमपि सूच्यते। सूत्रार्थः
संस्कृत डुकृञ् (कृ) धातुना सह "द्विधा" शब्दस्य प्रयोगे 'इ' (इत्) कारस्य स्थाने प्राकृते ‘ओं' कारः, उकारः च भवतः। यथा
द्विधाकृतम् > दोहाइअं, दुहाइअं "द्विधाकृतम्" इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'व्' कारस्य लोपे 'दिधा' इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'ध' इत्यस्य ‘ह' कारे 'दिहाकृतम्' इति जाते, "ओ च द्विधा कृञः" (प्रा. १.१६) इति सूत्रेण 'इ' कारस्य 'ओ' कारे "दोहाकृतम्" इति स्थिते, “इद्यष्यादिषु" (प्रा. १.२८) इत्यनेन सूत्रेण "ऋ" कारस्य “इ” कारे “दोहाकितम्" इति स्थिते "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण क् त् वर्णयोः लोपे “ दोहाइअ" इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५. ३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे "दोहाइअं" रूपं सिद्धम्, पक्षे 'इ' कारस्य 'उ' 'कारे “दुहाइअं इति सिद्धम्। -
द्विधाक्रियते > दोहाइज्ज, दुहाइज्जइ ___"द्विधाक्रियते" इति स्थिते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'व्' कारस्य लोपे “दिधा क्रियते” इति स्थिते “खधथधभां हः” (प्रा. १.२७) इत्यनेन सूत्रेण 'ध्' इत्यस्य 'ह' कारे 'दिहाक्रियते' इति जाते “ओ च द्विधा कृञः (प्रा. १.१६) इति सूत्रेण 'इ' कारस्य 'ओ' कारे "दोहाक्रियते” इति स्थिते सर्वत्र "लवराम्" (प्रा. ३.३)