________________
88
प्राकृत व्याकरणम्
इत्यनेन सूत्रेण 'र्' कारस्य लोपे “दोहाकियते” इति स्थिते “कगचजतदपयवां” प्रायो लोपः (प्रा. २.२) इति सूत्रेण 'क्' इत्यस्य लोपे "दोहाइयते” इति स्थिते “आदेर्योजः” (प्रा. २. ३१) इत्यनेन सूत्रेण ‘य्’ कारस्य ‘ज्’ कारे, " शेषादेशयोर्द्वित्व मनादौ ” ( ३.५० ) इति सूत्रेण 'ज्' इत्यस्य द्वित्वे “दोहाइज्ज” इति रूपं सिद्धम् ।
१७. ईत् सिंहजिह्वयोश्च
सुबोधिनी
अनयोरिकारस्य ईकारः स्यात् । सीहो । जीहा । इत इत्यधिकारो निवृत्तः ॥१६॥
इत इत्येव । एतयोः शब्दयोः इकारस्य ईकारदेशो भवति । सीहो, सिंहः । मांसादिषु वेति बिन्दुलोपः । जीहा, जीह्ना ॥२६॥
प्राकृतमञ्जरी
ईकारः स्यादिकारस्य शब्दयोः सिंहजिह्वयोः । सिंहो निगद्यते सीहो जिह्वा जीहा निगद्यते ॥ १७ ॥
मनोरमा
एतयोरादेरिकारसंय ईकारो भवति, सीहो, जीहा, चकारोऽनुक्तसमुच्चयार्थः, तेन - वीसत्यो, वीसम्भो इत्येव मादिषु ईत्वं भवति ।
अम्बिका
“आदेरतः” (प्रा. १.१) इत्यतः “आदेः” तथा “ इत एत् पिण्डसमेषु ” (प्रा. १.१२) इत्यतः “ इतः " पदद्वयमनुवर्त्तते । सूत्रे 'च' पदस्य प्रयोगत्वात्, सूत्रे नोल्लिखितं "विश्वस्त”, “विश्रम्भ” आदि अन्य शब्दानामपि ग्रहणंस्पष्टम् ।
सूत्रार्थः
'सिंहः', 'जिहवा' तथा सूत्रे नोल्लिखितं 'विश्वस्तः' 'विश्रम्भः' आदि अन्य संस्कृत शब्देषु " आदि - इ” (इत्) कारस्य स्थाने प्राकृते दीर्घ- 'ई' कारः भवति ।