________________
89
अज्विधिः यथा
सिंहः > सीहो "सिंहः” इति स्थिते “ईत सिंहजिह्वयोश्च" (प्रा. १.१७) इत्यनेन सूत्रेग 'इ' कारस्य 'ई' कारे 'सीह' इति 'जाते “मांसादिषु वा” (प्रा. ४.१६) इत्यनेन सूत्रेण अनुस्वारस्य ('.') लोपे 'सीह' इति प्राप्ते, “अत
ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “ओत्वे", सीहो" इति रूपं सिद्धम्। .
जिह्वा > जीहा 'जिह्वा' इति स्थिते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'व्' इत्यस्य लोपे 'जिहा' इति प्राप्ते, “ईत् सिंहजिह्वयोश्च' (प्रा. १. १७) इत्यनेन सूत्रेण 'हस्व-इ' कारस्य 'दीर्घई' कारे 'जीहा" रूपं सिद्धम।
विश्वस्तः > विसत्थो "विश्वस्तः” इति स्थिते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'व्' इत्यस्य लोपे 'विशस्त' इति स्थिते “शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य 'स्' कारे “विसस्त" इति जाते "स्तस्य" थः" (प्रा. ३.१२) इत्यनेन सूत्रेण 'स्त' इत्यस्य 'थ' कारे "विसथ" इति स्थिते "शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण 'थ्' कारस्य द्वित्वे "विसथ्थ" इति जाते “वर्गेषु 'युजः पूर्वः" (प्रा. ३.५१) इत्यनेन सूत्रेण 'थ्' कारस्य 'त्' कारे "विसत्थ" इति जाते "ईत सिंहजिह्वयोश्च (प्रा. १.१७) इत्यनेन सूत्रेण 'इ' कारस्य 'ई' कारे “वीसत्थ" इति स्थिते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य ओत्वे "विसत्थो" इति रूपं सिद्धम्।
विश्रम्भः > वीसम्भो "विश्रम्भः" इति स्थिते “ईत् सिंहजिह्वयोश्च" (प्रा. १.१७) इत्यनेन सूत्रेण “इ” कारस्य "ई" कारे "वीश्रम्भ” इति जाते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' इत्यस्य लोपे "वीशम्भ" इति जाते "शषोः “सः” (प्रा. २.४३) इत्यनेन सूत्रेण "श्” कारस्य 'स्' कारे