________________
90
प्राकृत व्याकरणम्
"वीसम्भ" इति जाते "अत ओत् सोः " (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे”,“वीसम्भो” इति रूपं सिद्धम् ।
समन्वयः
सूत्रस्य आधारभूत नियमः पर्य्यालोचनात्मकः । प्राकृतभाषायाः मान्य नियमस्तु संस्कृतस्वराणाम् रूपाणि परिवर्त्तन्ते, किन्तु संस्कृतस्वराणाम् गुरुत्वं संरक्षते च । यदि मूल संस्कृत स्वरः गुरुर्भवति, प्राकृते परिवर्तन समये गुरुत्वमपि संरक्षते। अतः हस्व स्वरस्य दीर्घत्वमपियुक्तम् । अनेन सूत्रानुसारेण " जिह्वा" शब्दस्य ' ह्रस्व ' 'इ' 'कारस्य दीर्घ “ई” कारः भवति । “संयोगाद्यत्वात्”, “जि” गुरुः भवति । परन्तु " सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण "जिह्वा" इत्यस्य "व्” कारस्य लोपे हकारः वर्त्तते ।
अतः “जि" इत्यस्य "इ" कारः न गुरूः । मूल गुरूत्वस्य रक्षा दीर्घ 'ई' कारे सम्भवम्'। फलतः 'इ' कारस्थ दीर्घत्वे " जीहा" इति प्राकृत शब्द सिद्धिर्भवति । अनेकानि सूत्राणि अयं नियमस्य संरक्षाणार्थं रचितम् ।
१८. इदीतः पानीयादिषु
सुबोधिनी
पानीयादिष्वीकारस्य इकारादेशः स्यात् । पानीयव्रीडितालीकतीयेदानींनिरीक्षितः । गृहीतानीतगंभीराः पानीयादय ईदृशाः ॥
पाणिअं । विलिअं । अलिअं । दुइअं । तइअं । द्वितीयतृतीययोस्तीय.
|
I
प्रत्ययान्तयोः ।
दाणि । णिरिक्खिओ । गहिरं ॥ १९ ॥
सञ्जीवनी
पानीयादिषु ईतः ईकारस्य इत् इकारगमः स्यात् । पाणिअं, पानीयम् । नो ण इति नस्य णः । कगचादिना यलोपः । विलिअं, व्रीडितं । सर्वत्र लवरामिति रेफलोपः । डस्य लः । तस्य कगचादिना लोपः । अलिअं,