________________
अज्विधिः
91 अलीकम्। दुइअं, द्वितीयम्। तकारयकारयोः कगचादिना लोपः। तइअं, तृतीयम्। ऋतोऽदिति ऋकारस्य अः। द्वितीयतृतीयशब्दौ तीयप्रत्ययान्तौ। दाणि, इदानीं। णिरिक्खिओ, निरीक्षितः। ष्कस्कक्षा ख इति क्षस्य खः, तस्य द्वित्वे वर्गे युजः पूर्व इति कः। नो ण इति नस्य णः। तस्य कगचादिना लोपः। गहिअं, गृहीतम्। ऋतोऽदिति ऋकारस्य अत्वम्। गहिरं, गंभीरम। खंघथादिना भस्य हः। मांसादिषु वेति बिन्दुलोपः। आणिअं, आनीतम्।
पानीयव्रीडितालीकतीयेदानींनिरीक्षताः।
गृहीतामीतगंभीराः पानीयादय ईदृशाः। प्राकृतमञ्जरी
पानीयादिष्विकारः स्यादीकारस्यादिवर्तिनः। पानीयं पाणि विद्यादलीकमलिअं तथा॥ पानीय-व्रीडितालीक-द्वितृतीयकरीषकाः। .
गभीरज्ञ तदानीञ्च पानीयादिरयं गणः॥१८॥ मनोरमा
“पानीयम्" इत्येवमादिष्वादेरीकारस्य इकारो भवति। पाणि। अलि। वलिअं। तआणिं, करिसो। दुइ । तइ। गहिरं। पानीथअलीक-व्यलीक-तदानीं, करीष-द्वितीय-तृतीय-गभीराः॥ अम्बिका
प्रथमसूत्रं “आदेरतः” इत्यतः ‘आदेः' इति पदमनुवर्तते इति भामहेन दृष्ट्या संगतम्। परन्तु उदाहरणेषु “आदेः" इति शब्दस्य तात्पर्य न प्रतीयते। यतः स्वयं पानीयम् > पाणिअं इति शब्दे मध्यस्थ 'ई' कारस्य 'इ' कारः भवति। अतः अस्मिन् सूत्रे ‘आदेः' इति पदस्यनानुवर्तनम् स्पष्टम्। सूत्रार्थः
“पानीयम्" आदि संस्कृत शब्दस्य “दीर्घ-ई" कारस्य स्थाने प्राकृते “हस्व -इ” कारः भवति। अलीकम्, व्यलीकम्, तदानीम्, करीषः,