________________
प्राकृत व्याकरणम् द्वितीयम्, तृतीयम्, तथा गभीरम् इति शब्दान् वोधयितुम् सूत्रे “आदि" पदस्य ग्रहणम् स्पष्टम्। यथा
पानीयम् > पाणि पानीयम्' इति स्थिते "नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे "पाणीय" इति स्थिते “इदीतः पानीयादिषु" (प्रा. १.१८) इति सूत्रेण 'दीर्घ-ई' कारस्य हस्व-इ' कारे पाणिय” इति स्थिते “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण 'य' इत्यस्य लोपे "पाणिअ" इति प्राप्ते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे "पाणिअं" इति रूपं सिद्धम्।
अलीकम् > अलिअं "अलीकम्” इति स्थिते “इदीतः पानीयादिषु” (प्रा. १.१८) इत्यनेन सूत्रेण "ई" कारस्य हस्व-इ" कारे “अलिकम्" इति जाते, “कगचजतद पयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे "अलिअ" इति स्थिते “सोर्बिन्दुनपुंसंके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “अलिअं” इति रूपं सिद्धम्।
व्यलीकम् > वलिअं "व्यलीकम्” इति स्थिते “अधो मनयाम्" (प्रा. ३.२) इत्यनेन सूत्रेण 'य' इत्यस्य लोपे “वलीकम्" इति स्थिते, "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' इत्यस्य लोपे 'वलीअम्' इति जाते "इदीतः पानीयादिषु" (प्रा. १.१८) इत्यनेन सूत्रेण दीर्घ-ई" कारस्य ह्रस्व-इ" कारे 'वलिअ" इति प्राप्ते "सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “वलिअं" इति रूपं सिद्धम्।
तदानीम् > तआणिं “तदानीम्" इति स्थिते “कगचजतदपयवा प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'द्' कारस्य लोपे “तआनीम्" इति स्थिते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' इत्यस्य ‘ण्' कारे “तआणीम्"