________________
अज्विधिः
93
"
इति स्थिते “इदीतः पानीयादिषु ” ( प्रा. १.१८ ) इत्यनेन सूत्रेण “दीर्घ - ई " कारस्य " ह्रस्व-इ" कारे, "तआणि" इति स्थिते "मो बिन्दुः " (प्रा. ४. १२) इत्यनेन सूत्रेण अन्तिम हल् (व्यञ्जन) 'म्' इत्यस्य स्थाने बिन्दुः (अनुस्वारे) आगमे “तआणिं" रूपं सिद्धम् ।
करीषः > करिसो
“करीषः” इति स्थिते "शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'ष् ' कारस्य 'स्' कारे "करीस" इति स्थिते " इदीतः पानीयादिषु ” (प्रा. १.१८) इत्यनेन सूत्रेण “दीर्घ-ई" कारस्य " ह्रस्व-इ" कारे "करिस” इति स्थिते, "अत ओत् सो” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ओत्वे " करिसो" इति रूपं सिद्धम् ।
द्वितीयम् > दुइअं
“द्वितीयम्” इति स्थिते “ सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'व्' इत्यस्य लोपे, “सन्धावचामज्लोपविशेषा वहुलम्” (प्रा. ४. १) इत्यनेन सूत्रेण 'इ' कारस्य 'उ' कारे "दुतीयम्” इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'त्' 'य्’ कारयोः लोपे “दुईअम्" इति प्राप्ते " इदीतः पानीयादिषु" (प्रा. १. १८) इति सूत्रेण “दीर्घ-ई” कारस्य " ह्रस्व-इ" कारे "दुइअ" इति प्राप्ते "सोर्बिन्दनपुंसके" (प्रा. ५.३० ) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) "दुइअं" इति रूपं सिद्धम् । तृतीयम् > तइअं
"
" तृतीयम्" इति स्थिते "ऋतोऽत्" (प्रा. १.२७) इत्यनेन सूत्रेण "ऋ" कारस्य "अ" कारे "ततीयम्” इति स्थिते " कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'त्’ 'य्' कारयोः लोपे “तई अम्” इति जाते “इदीतः पानीयादिषु ” ( प्रा. १.१८) इत्यनेन सूत्रेण दीर्घ - 'ई' कारस्य; ह्रस्व-इ' कारे 'तइअम्' इति स्थिते "सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “तइअं” इति रूपं सिद्धम् ।