________________
94
गभीरम् > गहिरं
" गभीरम्" इति स्थिते " खघथधभां हः " (प्रा. २.२७) इत्यनेन सूत्रेण 'भ्' इत्यस्य 'ह' कारे " गहीरम्” इति स्थिते “इदीतः पानीयादिषु” ( प्रा. १.१८ ) इति सूत्रेण " दीर्घ-ई कारस्य " ह्रस्व-इ" कारे गहिर" इति प्राप्ते, "सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) गहिरं " इति रूपं सिद्धम् । १९. एन्नीड़ापीड़कीदृशीदृशेषु
सुबोधिनी
एष्वीकारस्य एत्वं स्यात् ।
डुं । आमेलो | केरिसो ॥ एरिसो ।
प्राकृत व्याकरणम्
सञ्जीवनी
एषु ईकारस्य एत्त्वं स्यात् । णेड्डं, नीडम् | नो णः इति नस्य णः । नीडादिष्विति डस्य द्वित्वम् । आमेलो, आपीडः । आपीडे म इति पकारस्य मः। डस्य लः । अत ओत् सोरितिओत्वम् | केरिस, कीदृशः । क्वचिद्युक्तस्यापीति ऋकारस्य रिः । शषोः स इति शस्य सः । एरिसो ईशः । ऋकारस्य रित्वं पूर्ववत् ।
प्राकृतमञ्जरी
नीडापीडेदृशेष्वीतः कीदृशेष्येत्त्वमिष्यते ।
तद्यथा णेढ़मामेलो एरिसो केरिसो क्रमात् ॥ १९ ॥
मनोरमा
नीड़ादिष्वीकारस्यैकारो भवति । णेडं, आमेलो, केरिसो, एरिसो ।
अम्बिका
“इदीतः पानीयादिषु" (प्रा. १.१८) इत्यतः “ईतः” इति पदमनुवर्त्तते । सूत्रार्थः
नीड़, आपीड़, कीदृश तथा ईदृश आदि संस्कृत शब्देषु “दीर्घ-ई” कारस्य स्थानेषु प्राकृते 'ए'-कारः (एत्) भवति ।