________________
अज्विधिः यथा
नीडम् > गेडं "नीडम्" इति स्थिते “एन्नीड़ापीड़कीदृशीदृशेषु" (प्रा. १.१९) इति सूत्रेण 'ई' कारस्य 'ए' कारे “नेड़म्” इति जाते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' इत्यस्य 'ण' कारे "णेडम्" इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' . इत्यस्य बिन्दुत्वे “णेडं" इति रूपं सिद्धम्। अन्य व्याख्याकारैः "णेड्ड" इति रूपं स्वीकृतम्।
आपीड़ः > आमेलो “आपीड़ः” इति स्थिते “आपीड़े मः (प्रा. २.१६) इत्यनेन सूत्रेण 'प्' कारस्य 'म्' कारे “आमीड़" इति स्थिते “डस्य च” (प्रा २. ३३) इत्यनेन सूत्रेण 'ड्' कारस्य 'ल' कारे, “आमील" इति स्थिते "एन्नीड़ापीड़कीदृशीदृशेषु” (प्रा. १.१९) इत्यनेन सूत्रेण 'ई' कारस्य "ए" कारे “आमेल" इति प्राप्ते “अत ओत् सोः” (प्रा.५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “ओत्वे', "आमेलो" इति रूपं सिद्धम्।
कीदृशः > केरिसो “कीदृशः” इति स्थिते “एन्नीड़ापीड़कीदृशीदृशेषु” (प्रा. १.१९) इति सूत्रेण 'ई' कारस्य 'ए' कारे “केदृशः” इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'द्' इत्यस्य लोपे “केऋशः" इति स्थिते "क्वचिद्युक्तस्यापि" (प्रा. १.३१) इत्यनेन सूत्रेण 'ऋ' इत्यस्य 'रि' कारे “केरिशः” इति स्थिते “शषोः सः” (प्रा. २.४२) इत्यनेन सूत्रेण 'श्' इत्यस्य ‘स्' कारे “केरिस” इति स्थिते “अत ओत् सोः" (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य "ओत्वे", "केरिसो” इति रूपं सिद्धम्।
ईदृशः > एरिसो "ईदृशः" इति स्थिते “एन्नीड़ापीड़कीदृशीदृशेषु" (प्रा. १.१९) इत्यनेन सूत्रेण "ई" कारस्य "ए" कारे “एदृश" इति स्थिते “कगचजतदपयवां