________________
प्राकृत व्याकरणम् प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण “द्" कारस्य लोपे, “एऋश" इति स्थिते “क्वचिद्युक्तस्यापि" (प्रा. १.३१) इत्यनेन सूत्रेण 'ऋ' कारस्य रि कारे “एरिश" इति स्थिते “शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य 'स्' कारे “एरिस" इति स्थिते "अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य "ओत्वे”, “एरिसो” इति रूपं सिद्धम्। २०. उत ओत् तुण्डरूपेषु सुबोधिनी
तुण्डतुल्येषु शब्देषु उकारस्य ओत्त्वं स्यात्। तुण्डः पुष्करशब्दश्च मुस्तपुस्तकमुद्गराः। लुब्धकः सुकुमारश्च तुण्डतुल्याः स्युरीदृशाः॥ तोंडं। पोक्खरो। मोत्थं। पोत्थ। मोग्गरो। लोद्धओ।
सोमालो॥२१॥ सञ्जीवनी
तुण्डसदृशेषु शब्देषु उतः उकारस्य ओकारः स्यात्। तोंडं, तुण्डम्। पोक्खरो, पुष्करः। ष्कस्कक्षां ख इति ष्कस्य खः। तस्य द्वित्वे वर्गे युजः पूर्व इति कः। मोत्थं, मुस्तम्। स्तस्य थ इति थः। तस्य आदेशत्वाद् द्वित्वे वर्गे युजः पूर्व इति तः। पोत्थअं, पुस्तकम्। स्तस्य थकारादिकं पूर्ववत्। मोग्गरो, मुद्गरः। उपरि लोप इत्यादिना दस्य लोपः। शेषस्य गस्य द्वित्वम्। लोद्धओ, लुब्धकः। सर्वत्र लवरामिति वलोपः। शेषस्य धस्य द्वित्वे वर्गे युजः पूर्व इति दः। कगचादिना कलोपः। सोमालो, सुकुमारः। कगचादिना कलोपः। ततः सन्धा वचामित्थादिना उकारस्य लोपः। हरीद्रादीनां रो ल इति रेफस्य लः।
तुण्डः पुष्करशब्दश्च मुस्तपुस्तकमुद्गराः।
सुब्धकः सुकुमारश्च तुण्डतुल्याः स्युरीदृशाः।।२१।। मनोरमा
तुण्ड इत्येवंरूपेषु आदे रूकारस्यौकारो भवति। तोण्डं। मोत्ता।