SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अविधिः पोक्खरो । पोत्थओ । लोद्धओ । कोट्टिमं ॥ तुण्ड - मुक्ता पुष्कर-लुब्धककुट्टिमानि रुपग्रहणं संयोगपरोपलक्षणार्थम्। अम्बिका - 97 प्रथमसूत्रं “आदेरतः” (प्रा. १.१) इत्यतः “आदेः” पदमनुवर्त्तते। सूत्रे 'रूप' शब्दस्य प्रयोगम् " तुण्डं" सदृशं संयुक्त व्यञ्जन वर्णानि निमित्तम्, अर्थात् संयुक्तान् व्यञ्जनवर्णान् वोधयितुम् । सूत्रार्थः " तुण्डम् " आदि (मुक्ता, पुष्करः पुस्तकम्, लुब्धकः, कुट्टिमम् ) तत् सदृशं संयुक्त व्यञ्जनवर्णयुक्त शब्देषु आदिषु विद्यमानेषु “उ” कारस्य स्थानेषु प्राकृते "ओ" कारः (ओत्) भवति । यथा तुण्डम् > तोण्डं 'तुण्डम्' इति स्थिते “उत ओत् तुण्डरूपेषु” (प्रा. १.२०) इत्यनेन सूत्रेण आदि-उ कारस्य' 'ओ' कारे 'तोण्ड इति प्राप्ते "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) " तोण्डं" इति रूपं सिद्धम् । मुक्ता > मोत्ता "मुक्ता” इति स्थिते “उत ओत् तुण्डरूपेषु” (प्रा. १.२० ) इत्यनेन सूत्रेण आदि-उ कारस्य "ओ" कारे “मोक्ता" इति स्थिते “उपरि लोप कगडतदपषसाम् (प्रा. ३.१) इत्यनेन सूत्रेण 'क्' इत्यस्य लोपे " मोता" इति प्राप्ते, “शेषादेशयोर्द्वित्वभनादौ " (प्रा. ३.५० ) इत्यनेन सूत्रेण 'त्' इत्यस्य द्वित्वे "मोत्ता" रूपं सिद्धम् । पुष्करः > पोक्खरो “पुष्करः” इति स्थिते “उत ओत् तुण्डरूपेषु” (प्रा. १.२०) इत्यनेन सूत्रेण " आदि उकारस्य "ओ" कारे “पोष्करः" इति स्थिते, “ष्कस्कक्षां खः” (प्रा. ३.२९) इत्यनेन सूत्रेण 'ष्क्' इत्यस्य 'ख्' कारे “पोखर" इति जाते “शेषादेशयोर्द्वित्वमनादौ ” (प्रा. ३.५० ) इत्यनेन सूत्रेण 'ख्' "
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy