________________
98
प्राकृत व्याकरणम् इत्यस्य द्वित्वे “पोख्खर” इति प्राप्ते, “वर्गेषु युजः पूर्वः' (प्रा. ३. ५१) इत्यनेन सूत्रेण ‘ख्' इत्यस्य 'क्' कारे पोक्खर' इति जाते “अत्
ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने 'सु' इत्यस्य “ओत्वे" “पोक्खरो” इति रूपं सिद्धम्।
पुस्तकम् > पोत्थअं "पुस्तकम्” इति स्थिते “उत ओत् तुण्डरूपेषु” (प्रा. १.२०) इत्यनेन ‘सूत्रेण "आदि-उ कारस्य' 'ओ' कारे “पोस्तकम्” इति स्थिते, "स्तस्य थः” (प्रा. ३.१२) इत्यनेन सूत्रेण 'स्त' इत्यस्य 'थ' कारे पोथकम् इति जाते "शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण 'थ्' इत्यस्य द्वित्वे “पोथ्थकम्” इति जाते “वर्गेषु युजः पूर्वः (प्रा. ३.५१) इत्यनेन सूत्रेण 'थ्' इत्यस्य 'त्' कारे “पोत्थकम्" इति प्राप्ते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' इत्यस्य लोपे “पोत्थअ" इति जाते सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “पोत्थअं" रूपं सिद्धम्।
लुब्धकः > लोद्धओ "लुब्धकः" इति स्थिते "उत ओत् तुण्डरूपेषु (प्रा. १.२०) इत्यनेन सूत्रेण “आदि-उ कारस्य' 'ओ'कारे "लोब्धक" इति स्थिते, “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'ब' कारस्य लोपे “लोधक' इति स्थिते "शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण 'ध' इत्यस्य द्वित्वे "लोध्धक" इति जाते “वर्गेषु युजः पूर्वः' (प्रा. ३.५१) इत्यनेन सूत्रेण 'ध्' इत्यस्य 'द्' कारे “लोद्धक" इति जाते “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण “क्" इत्यस्य लोपे “लोद्धअ' इति प्राप्ते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने सु" इत्यस्य ओत्वे "लोद्धओ” इति शब्दं सिद्धम्।
कुट्टिमम् > कोट्टिमं “कुट्टिमम्” इति स्थिते “उत ओत् तुण्डरूपेषु" (प्रा. १.२०) इत्यनेन सूत्रेण 'आदि-उ' कारस्य 'ओ' कारे “कोट्टिमम्" इति जाते