________________
अज्विधिः
99 "सोर्बिन्दुनपुंसके” इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “कोट्टिमं” इति रूपं सिद्धम्। २१. उलूखले ल्वा वा सुबोधिनी
उलूखलशब्दे ल्वा लूकारेण सह उकारस्य ओत्त्वं वा स्यात्। ओहलं, उलूइलं॥ सञ्जीवनी ___उलूखलशब्दे ल्वा लूकारेण सह आदेः उकारस्य ओत्त्वं वा भवति।
ओहलं, उलूहलं। खघथादिना खस्य हः।। प्राकृतमञ्जरी
लूकारेण सह स्याद् वा पुनरोत्त्वमुलूखले।
ओहलं तदु विदुः सन्तः पक्षे विदुरूलूहलम्॥ २१॥ मनोरमा
उलूखलशब्दे ल शब्देन सह उकारस्यौकारो भवति वा, ओखलं, उलूखलं। अम्बिका
_ “आदेरतः” (प्रा. १.२०) इत्यतः “आदेः” तथा “उत ओत् तुण्डरूपेषु" (प्रा. १.२०) इत्यतः “ओत्" पदद्वयमनुवर्तते, सूत्रस्थ “ल्वा" शब्दः "लू" शब्दस्य तृतीया विभक्ति एकवचनम्। सूत्रार्थः
"उलूखल'' इति संस्कृत शब्दस्य 'लू' भागेन सह “आदि-उ'' (उत्) कारस्य विकल्पेन प्राकृते “ओ' कारः भवति। यथा
उलूखलम् > ओहलं "उलूखलम्" इति स्थिते “उलूखले ल्वा वा” (प्रा. १.२१) इत्यनेन सूत्रेण “उलू' एतयोः 'ओ' कारे “ओखलम्” इति जाते “खघथ