________________
100
प्राकृत व्याकरणम्
धभां हः" इत्यनेन सूत्रेण 'ख्' इत्यस्य 'ह' कारे "ओहल" इति जाते "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु” इत्यस्य बिन्दुत्वे (अनुस्वारे ) " ओहलं " इति रूपं सिद्धम् । विकल्प अभावपक्षे तु " उलूहलं "
२२. अन्मुकुटादिषु
सुबोधिनी
एष्वादेरूतोऽकारादेशः स्यात् ।
मुकुटं मुकुलं चैव सौकुमार्य्य तथोपरि ।
शब्दज्ञा गुरूवाह्वादीन् मुकुटादीन् प्रचक्षते ॥
मउडं। मउलं। सोअमल्लं । अवरि । गरूअं । 'बाहुशब्देऽप्युकारस्य विकल्पादत्त्वमिष्यते'। बाहा, बाहू ॥ २३ ॥
सञ्जीवनी
मुकुटादिषु शब्देषु आदेरूकारस्य अत् अकारादेशः स्यात् । मउडं, मुकुटम् । कगचादिना कलोपः । टो ड इति टस्य डः । मउलं, मुकुलम्। सोअमल्लं, सौकुमार्यम् । कगचादिना कलोपः । औत ओदिति ओत्त्वम् । अदातो यथादिषु वेति आकारस्य अकारः । पर्यस्तपर्याणसौकुमार्येषु लः इति र्यस्य लः । तस्य आदेशत्वाद् द्वित्वम् । अवरि, उपरि। पो व इति वस्य वः। गरूअं, गुरूकम्। 'बाहुशब्देऽप्युकारस्य विकल्पादत्त्वमिष्यते ' । बाहा, बाहु ।
मुकुटं मुकुलं चैव सौकुमार्यं तथोपरि ।
प्राकृतमञ्जरी
आदेरूतो भवेदत्त्वं पदेषु मुकुटादिषु । मुकुटं मउड़ं विद्यान्मुकुलं मउलं तथा ॥ मुकुटं मुकुलं गुर्वी सुकुमारी युधिष्ठरः । अगुरूपरि शब्दस्य मुकुटादिरयं गणः ॥ २२ ॥