________________
अज्विधिः
101 मनोरमा
__ "मुकुट" इत्येवमादिष्वादेरूकारस्य स्थाने अकारो भवति। मउडं, गरूअं, गरूई, जहिट्ठिलो, सोअमल्लं, अवरि॥ मुकुट-मुकुल-गुरू-गुर्वीयुधिष्ठिर-सौकुमार्य-उपरयः। अम्बिका ___ "आदेरतः” (प्रा. २.२) इत्यतः “आदेः" तथा "उत ओत् तुण्डरूपेषु (प्रा. १.२०) इति सूत्रतः "उतः” इति पदद्वयमनुवर्तते।
सूत्रार्थः
मुकुटादि (मुकुलम्-गुरू-गुर्वी-युधिष्ठिरः-सौकुमार्यम्-उपरि) संस्कृत शब्दानाम् आदि तथा मध्यस्थ 'उ' कारस्य स्थानेषु प्राकृते “हस्व-अ" कारः भवति। यथा
मुकुटम् > मउडं "मुकुटम्” इति स्थिते “अन्मुकुटादिषु” (प्रा. १.२२) इत्यनेन सूत्रेण आदि “उ” कारस्य "अ" कारे “मकुटम्" इति स्थिते "कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण "क" कारस्य लोपे “मउटम्” इति स्थिते “टोडः' इत्यनेन सूत्रेण 'ट्' इत्यस्य 'ड्' कारे “मउडम्” इति स्थिते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण “मउडं" इति रूपं सिद्धम्।
___ मुकुलम् > मउलं "मुकुलम्" इति स्थिते “अन्मुकुटादिषु” (प्रा. १.२२) इत्यनेन सूत्रेण 'आदि-उ' कारस्य 'अ-कारे "मकुलम्' इति स्थिते "कगचजतदपयवां प्रायो लोपः (प्रा. २.२) इत्यनेन सूत्रेण 'क्' इत्यस्य लोपे “मउलम्” इति स्थिते “सोर्बिन्दुनपुंसके'' (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) “मउलं' इति रूपं सिद्धम्।