________________
102
प्राकृत व्याकरणम् गुरूकम् > गरू ___“गुरूकम्” इति स्थिते “अन्मुकुटादिषु" (प्रा. १.२२) इत्यनेन सूत्रेण “आदि-उ'' कारस्य 'अ'-कारे “गरूकम्" इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे “गरूअम्” इति स्थिते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “गुरूअं" इति रूपं सिद्धम्।
गुर्वी > गरई "गुर्वी” इति स्थिते अन्मुकुटादिषु” (प्रा. १.२२) इत्यनेन सूत्रेण "आदि-उ" कारस्य “अ-कारे" "गर्वी" इति स्थिते, रेफस्य 'र' कारे “गरवी' इति स्थिते, कगचजतदपयवां प्रोयो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण 'व्' कारस्य लोपे “गरई” इति रूपं सिद्धम्।
युधिष्ठिरः > जहिट्ठिलो "युधिष्ठिरः” इति स्थिते “अन्मुकुटादिषु" (प्रा. १.२२) इत्यनेन सूत्रेण “आदि-उ" कारस्य "अ" कारे “आर्यो जः” (प्रा. २.३१) इत्यनेन आदि 'य' कारस्य 'ज्' कारे "जधिष्ठिरः" इति जाते "खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण 'ध्' इत्यस्य ‘ह्' कारे ष्ठस्य ठः (प्रा. ३.१०) सूत्रेण 'ष्ठ' इत्यस्य 'ठ' कारे, "जहिठिर" इति स्थिते "शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण 'ठ' इत्यस्य द्वित्वे, “वर्गेषु युजः पूर्वः (प्रा. ३.५१) इत्यनेन सूत्रेण ‘ठ्' कारस्य 'ट्' कारे जहिट्ठिर” इति स्थिते "हरिद्रादीनां रो लः' (प्रा. २.३०) इत्यनेन सूत्रेण ‘र्' इत्यस्य ‘ल्' कारे "जहिट्ठिल'' इति स्थिते "अत ओत् सोः" (प्रा. ५.३१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य "ओ" कारे "जहिट्ठिलो'' इति रूपं सिद्धम्।
सौकुमार्यम् > सोअमल्लं “सौकुमार्यम्" इति स्थिते “औत ओत्” (प्रा. १.४१) इत्यनेन सूत्रेण “औ' कारस्य 'ओ' कारे “सोकुमार्यम्” इति स्थिते “अन्मुकुटादिषु (प्रा. १.२२) इत्यनेन 'उ'-कारस्य 'अ' कारे “सोकमार्यम्” इति जाते,