________________
103
अज्विधिः "कगचजतदपयवां प्रायो लोपः (प्रा. २.२) इत्यनेन सूत्रेण 'क्' इत्यस्य लोपे “सोअमार्यम्” इति जाते “पर्यस्तपर्यायसौकुमार्येषु लः” (प्रा. ३.२१) इति सूत्रेण संयुक्त व्यञ्जन समुदाय '' स्थाने 'ल' इति प्राप्ते, “शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण 'ल' इत्यस्य द्वित्वे “सोअमाल्लम्" इति स्थिते अदातो यथादिषु वा (प्रा. १.१०) इत्यनेन सूत्रेण 'आ' कारस्य अकारे “सोअमल्लम्" इति प्राप्ते "मोर्बिन्दुः” (प्रा. ४.१२) इत्यनेन सूत्रेण 'म्' इत्यस्य बिन्दुत्वे (अनुस्वारे) “सोअमल्लं" इति रूपं सिद्धम्।
उपरि > अवरि “उपरि" इति स्थिते “अन्मुकुटादिषु” (प्रा. १.२२) इत्यनेन सूत्रेण "आदि-उ" कारस्य 'अ' कारे “अपरि" इति स्थिते “पोवः" (प्रा. २.१५) इत्यनेन “प्" कारस्य “व्” कारे “अवरि” इति रूपं सिद्धम्। २३. इत्पुरूषे रोः सुबोधिनी
अत्र रूकार उकारस्य इत्त्वं स्यात्। पुरिसो॥ सञ्जीवनी
अत्र पुरूषशब्द रूकारे उकारस्य इत् इकारः स्यात्। पुरिसो, पुरूषः। शषो। शषो सः इति षस्य सः॥ प्राकृतमञ्जरी
योऽसौ पुरूष शब्देऽस्मिन् रेफस्तत्र स्थितस्य तु। उकारस्य भवेदित्त्वं पुरूषः पुरसिो भवेत्॥ चोद्यते ननु सूत्रेऽस्मिनधकारो विरुध्यते। अतीतमपि यत् सूत्रमितेस्त इति तत्र च॥ स्यादेतत् परिहतम्यं यत् सूत्रे त्वत्र चोच्यते। "एकवारमनुग्राह्यं स्खलितं क्षम्यतामिति॥" इतेस्त इति यच्चोद्यं तत्राभासो न बाध्यते। अन्यच्चाहत्य निर्देशो द्वयोर्नेहास्ति दूषणम्॥