________________
104
प्राकृत व्याकरणम् एकस्मिनेव शब्दे स्यादिति यद्विवृतं मुखे।
प्रायो वृत्त्या तदेतावानेव बाधविधिर्भरः॥२३॥ मनोरमा
“पुरूष" शब्दे यो "रू' स्तस्य 'उ' कारस्य 'इ' कारो भवति। पुरिसो। अम्बिका
“उत ओत् तुण्डरूपेषु" (प्रा. १.२०) इति सूत्रतः “उतः” पद मनुवर्तते, “आदेरतः” (प्रा. १.१) इति सूत्रतः “आदेः" पदस्यानुवृत्तिर्न भवति। .
सूत्रार्थः
'पुरूषः इति संस्कृत शब्दस्य ‘रू' इत्यस्य 'उ' (उत्) कारस्य स्थाने प्राकृते 'इ' (इत्) कारः भवति। यथा
पुरूषः > पुरिसो 'पुरूषः इति स्थिते “इत्पुरूषे रोः” (प्रा. १.२३) इत्यनेन “रु” इत्यस्य "उ'' कारस्य “इ” कारे “पुरिष" इति स्थिते, “शषोः सः" (प्रा. २.४२) इत्यनेन सूत्रेण ‘ष्' इत्यस्य ‘स' कारे "पुरिस' इति प्राप्ते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य ओत्वे” “पुरिसो” इति रूपं सिद्धम्। २४. उदूतो मधूके सुबोधिनी
एषु ऊकारस्य उकारः स्यात्। मधूकमूर्खकूष्माण्डशूद्रोर्द्धपूर्तमूर्तयः।
भूर्जशून्योमिचूर्णोणा मधूकादय ईदृशाः॥ महुओ। मुक्खो। कुम्हण्डं। सुद्दो। उद्धं। पुत्तो। मुत्ती। भुजं। सुण्णं। उम्मओ। चूण्णं। उष्णा। 'मूल्यताम्बूलयोस्त्वोत्त्वमूकारस्येष्यते बुधैः' मोल्लं। नंबोल्लं।