________________
अज्विधिः
105 सञ्जीवनी
एषु शब्देषु ऊतः ऊकारस्य उत् उकारः स्यात्। महुओ, मधूकः। खघथादिना धस्य हः। कस्य कगचादिना लोपः। मुक्खो, मूर्ख। सर्वत्र लवरामिति रेफस्य लोपः। खस्य शेषस्य द्वित्वम्। तस्य वर्गे युजः पूर्व इति कः। कुम्हण्डं, कूष्माण्डम्। ष्मपक्ष्मविस्मयेषु म्हः इति ष्मस्य म्हः। अदातो यथादिषु वेति आकारस्य अकारः। सुद्दो, शूदः। सर्वत्र लवरामिति रेफलोपः। शेषस्य शेषादेशादिना द्वित्वम्। शषोः स इति शस्य सः। उद्धं, ऊध्वं। सर्वत्र लवरामिति रेफवकारयोर्लोपः। ततो धस्य द्वित्वे वर्गे युजः पूर्व इति दः। पूत्तो, पूर्तः। रेफलोपः शेषद्वित्वं चाग्वत्। मुत्ती, मूर्तिः। सर्वत्र लवरामिति रेफलोपः। शेषस्य तस्य द्वित्वम्। सुभिस्सुप्सु दीर्घ इति इकारस्य दीर्घः। अन्त्यस्य हल इति सुलोपः। भुजं भूर्ज। रेफलोपादिकं पूर्ववत्। सुण्णं, शून्यम्। अधो मनयामिति यलोपः। नो णः इति नस्य णः। ततः शेषादेशादिना द्वित्वम्। उम्मओ, ऊर्मयः। सर्वत्र लवरामिति रेफलोपः। ततो जसो वेति जसः ओत्वम्। चुण्णं चूर्णम्। रेफलोपादिकं पूर्ववत्। उण्णा, ऊर्णा।
मधूकमूर्खकूष्माण्डशूद्रोर्ध्वपूर्तमूर्तयः। भूर्जशून्योर्मिचूर्णोर्णा मधूकादय ईदृशाः॥
मूल्यताम्बूलयोस्त्वोत्त्वमूकारस्येष्यते बुधैः। मोल्लं, मूल्यं। अधोमनयामिति यलोपः। ततः शेषस्य लस्य द्वित्वम्। तंबोलं, ताम्बूलम्। मस्यानुस्वारे अदातो यथादिषु वेति आकारस्य अकारः॥ प्राकृतमञ्जरी
योऽसौ मधूकशब्देऽस्मिन्नूकारः सम्प्रतिष्ठितः।
उकारो विहितस्तस्य मधूको महुओ मतः।। मनोरमा
"मधूक" शब्दे “ऊ" कारस्य “उ” कारो भवति। महुअं। अम्बिका
अनुवृत्ति विहिनमिदं सूत्रम्।