________________
106
सूत्रार्थः
प्राकृत व्याकरणम्
" मधूक" इति संस्कृत शब्दस्य दीर्घ ऊ” (ऊत्) कारस्य स्थाने प्राकृते “ह्रस्व-अ” कारः भवति ।
मधूकः > महुओ
"
" मधूकः” इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण ‘ध्’ कारस्य ‘ह’ कारे " महूकः' इति जाते “उदूतो मधूके" (प्रा. १.२४) इत्यनेन सूत्रेण “ऊ” कारस्य 'उ' कारे "महुक" इति प्राप्ते " कगचजतदपयवां प्रायो लोपः (प्रा. २.२) इत्यनेन सूत्रेण 'क्' इत्यस्य लोपे " महुअ" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य "ओत्वे", महुओ" इति रूपं सिद्धम् ।
"
समन्वयः
“संञ्जीवनी” व्याख्यायाम् " मधूकादिषु" पाठं स्वीक्रियते, प्राकृते एतादृशः वहवः शब्दः लभ्यते । तस्मात् कारणात् शब्द साधुत्वं पर्यालोच्य " मधूकादिषु पाठं ग्रहणीयं युक्तम् इति स्व मतम् ।
२५. अद् दुकूले वा लस्य द्वित्वम्
सुबोधिनी
दुकूलशब्दे ऊकारस्य अकारो लस्य च द्वित्त्वं युगपद्वा भवति । दुअल्लं, दुऊलं ॥
सञ्जीवनी
दुकूलशब्दे ऊकारस्य अकारो लस्य द्वित्वं च युगपद् विकल्पेन भवति । दुअल्लं । पक्षे कगचादिना कलोपे दुकूलमिति ॥२६॥
प्राकृतमञ्जरी
अत्त्वमूतो दुकूले वा स्यात्तदा लस्य च द्विता ।
दुकूलं तु दुअल्लं वा दुऊलं वा निगद्यते ॥ 25 ॥
मनोरमाः
दुकूल शब्दे 'ऊ' कारस्याकारो भवति वा । तत्संयोगेन लकारस्य द्वित्वम् दुअल्लं दुऊलं ।