________________
107
अज्विधिः अम्बिका
उदूतो मधूके' (प्रा. १.२४) इति सूत्रात् “ऊतः पदमनुवर्तते। सूत्रार्थः ___“दुकूल” इति संस्कृत शब्दस्य 'ऊ' (ऊत्) कारस्य स्थाने प्राकृते विकल्पेन "अ" (अत्) कारः तथा परवर्त्ति 'ल' विकल्पेन द्वित्व भवति। 'ऊ' कारस्य स्थाने 'अ' कारे 'ल' इत्यस्य द्वित्वं युक्तम्, अन्यथा न द्वित्वम्।
दुकूलम् > दुअल्लं, दुऊलं “दुकूलम्" इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन 'क्' इत्यस्य लोपे “दुऊलम्" इति स्थिते “अद् दुकूले वा लस्य द्वित्वम्” (प्रा. १.२५) इत्यनेन सूत्रेण “ऊ" कारस्य 'अ' कारे तथा 'ल' इत्यस्य द्वित्वे, “दुअल्ल” इति स्थिते, “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे “दुअल्लं" इति रूपं सिद्धम्। अपरपक्षे “दुऊलं" इति रुपं सिद्धम्। २६. एन्नूपुरे सुबोधिनी
ऊकारस्य एत्वं स्यात्। णेउरं।। सञ्जीवनी
नूपुरशब्दे ऊकारस्य एत्वं स्यात्। णेउरं, नूपुरम्। नो ण इति नस्य णः। कगचादिना पकारस्य लोपः॥२७॥ प्राकृतमञ्जरी
ऊतो नूपूरशब्देऽस्मिन्नेकारस्तु विधीयते।
आदेशत्वेन तेनेह नूपुरो णेउरो मतः।।२६।। मनोरमा
नूपुर शब्दे ऊकारस्य एकारो भवति णेउरं।