________________
108
प्राकृत व्याकरणम् अम्बिका
“उदूतो मधुके" (प्रा. १.२४) इति सूत्रात् “ऊतः” इत्यस्य अनुवृत्तिः भवति। सूत्रार्थः
___ "नूपुरम्” इति संस्कृत शब्दस्य "ऊ" (ऊत्) कारस्य स्थाने प्राकृते “ए” (एत्) कारः भवति। यथा
नूपुरम् > णेउरं "नूपुरम्” इति स्थिते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे, “णूपुरम्” इति जाते “एन्नूपुरे” (प्रा. १.२६) इत्यनेन सूत्रेण “ऊ" कारस्य 'ए' कारे “णेपुरम्" इति जाते “कगचज तदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन “प्" कारस्य लोपे “णेउरम्" इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके सु इत्यस्य बिन्दुत्वे (अनुस्वारे) “णेउरं" इति रूपं सिद्धम्। २७. ऋतोऽत् सुबोधिनी
ऋकारस्य अत्त्वं स्यात्। तण्हा, तृष्णा॥ सञ्जीवनी
ऋकारस्य अत्त्वं स्यात्। तण्हा, तृष्णा। ह्रस्रष्णक्ष्णश्नां ग्रह इति
ण्हः
॥
प्राकृतमञ्जरी
ऋकारस्य त्वकारः स्यादुत्सर्गेण पदे पदे।
वृद्धं बद्धं मृदु मउ कृष्णः कण्हो मृड़ो मड़ो। मनोरमा
आदेः ऋकारस्याकारो भवति, तणं, घणा, मअं, कअं, बद्धो, वसहो॥ तृण-घृणा-मृत-कृत-बृद्ध-वृषभाः।