________________
109
अज्विधिः अम्बिका
प्रथम सूत्रं “आदेरतः” (प्रा. १.२७) इत्यतः “आदेः' पदमनुवर्तते। सूत्रार्थः
तृणम्, घृणा, मृतम्, कृतम्, वृद्धः वृषभः आदि संस्कृत शब्दानाम् आदि "ऋ" कारस्य (ऋत्) स्थाने प्राकृते "अ" (अत्) कारः भवति। यथा
तृणम् > तणं "तृणम्" इति स्थिते "ऋतोऽत्" (प्रा. १.२१) इत्यनेन सूत्रेण इादि 'ऋ' कारस्य 'अ' कारे “तणम्” इति स्थिते, “सोर्बिन्दुनपुंसके" (प्रा. 5.30) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) "तणं" इति रूपं सिद्धम्।
घृणा > घणा “घृणा" इति स्थिते "ऋतोऽत्” (प्रा. १.२७) इत्यनेन सूत्रेण आदि "ऋ" कारस्य “अ” कारे “घणा” इति रूपं सिद्धम्।
मृतम् > मअं “मृतम्' इति स्थिते “ऋतोऽत्” (प्रा. १.२७) इत्यनेन सूत्रेण आदि "ऋ' कारस्य "अ" कारे “मतम्" इति जाते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'त्' इत्यस्य लोपे “मअम्" इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “मअं” इति रूपं सिद्धम्।
कृतम् > कसं “कृतम्' इति स्थिते "ऋतोऽत्” (प्रा. १.२७) इत्यनेन सूत्रेण “आदि-ऋ" कारस्य "अ" कारे “कतम्' इति स्थिते “कगचजतदपयवां प्रायो लोपः'' (प्रा. २.२) इत्यनेन सूत्रेण “त्" कारस्य लोपे “कअम्" इति स्थिते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “कअं” इति रूपं सिद्धम्।