________________
110
बृद्धः > बद्धो
" बृद्धः" इति स्थिते "ऋतोऽत्" (प्रा. १.२७) इत्यनेन सूत्रेण " आदि-ऋ" कारस्य "अ" - कारे " बद्धः" इति स्थिते " अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु” इत्यस्य “ओत्वे", " बद्धो” इति रूपं सिद्धम् ।
प्राकृत व्याकरणम्
वृषभः > वसहो
“वृषभः” इति स्थिते " ऋतोऽत्” (प्रा. १.२७) इत्यनेन सूत्रेण 'आदि-ऋ" कारस्य "अ" -कारे " वषभ" इति स्थिते, “शषोः सः " (प्रा. २.४२) इत्यनेन सूत्रेण 'ष्' कारस्य 'स्' कारे "वसभ" इति स्थिते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण “भ्" इत्यस्य "ह" कारे " वसह" इति स्थिते “अत ओत् सो: " ( प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य "ओत्वे", "वसहो” इति रूपं सिद्धम् ।
२८. इदृष्यादिषु
""
सुबोधिनी
एषु ऋत इत्त्वं स्याद्वा
ऋषिर्मसृणधृष्टौ च वृषभः पृथुलो दृढः।
मृगो गृष्टिः कृतो गृद्ध ऋष्याद्या एवमादयः ॥
इस मसि । धिठ्ठो । विसहो । पिहुलं । दिढो । मिओ । गिठ्ठी । किअं । गिद्ध । इत्वाभावपक्षे ऋषिशब्दे रित्वम्, अन्यत्र अत्वमेव । व्यवस्थितविकल्पोऽयम्, तेन
भृङ्गभृङ्गारशृङ्गाराः कृपाणकृपणकृपाः।
शृङ्गालहृदये वृष्टिदृष्टी इत्येषु नित्यमिः ॥
भिंगो। भिंगालो | सिंगालो । किवाणो । किवणो । किवा । सिआलो ।
हिअअं । विठ्ठि । दिठ्ठी ॥
सञ्जीवनी
ऋष्यादिषु शब्देषु ऋकारस्य इत्त्वं स्याद् वा । इसी, ऋषिः । शषोः